________________ अइसेस 22- अभिधानराजेन्द्रः - भाग 1 अइसेस कथयन्ति- किमेष कौटुम्बिकोऽस्माकं मुधा ददाति ? येन वयं विध्मापनार्थमभ्युद्यता भवामः। एयस्स पभावेणं, जीवा अम्हेति एवं नाऊण। अण्णे उसमल्लीणा, विज्झविए तेसि सो तुट्ठो। अन्ये कर्षका एतस्य कौटुम्बिकस्य प्रभावेण वयंजीवन्तः स्म जीव अप्रत्ययः जीविता इत्यर्थः / एवं ज्ञात्वा समालीनास्तत्र समागता विध्मापनाय च प्रवृत्तास्ततो विध्मापिते कोष्ठागारे स कौटुम्बिकस्तेषां तुष्टः / ततः किमकार्षीदित्यत आहजे उ सहायगत्तं, करेसु तेसिं अवढियं दिन। दइंति न दिण्णियरे, अकासगा दुक्खजीवीय॥ ये विध्मापने सहायकत्वमकार्षुस्तेषामवृद्धिकं कलान्तर- वृद्धिरहितं धान्यं दत्तमितरेषां तु सहायत्वमकृतवता दग्धम्, इत्युत्तरं विधाय न दत्तं, ततस्ते अकर्षकाः सन्तो दुःखजीविनो जाताः / एष दृष्टान्तः / सांप्रतमुपनयमभिधित्सुराह - आयरिय कुटुबी वा, सामाणियथाणिया भवे साहू। वाबाहअगणितुल्ला, सुत्तत्था जाण धन्नं तु / / आचार्यः कुटुम्बी इव कुटुम्बितुल्य इत्यर्थः। सामान्यकर्षक-स्थानीयाः साधव आचार्यस्य भिक्षाटने वातादिव्याबाधा अग्नितुल्या, सूत्राऽर्थान् जानीहि धान्यं धान्यतुल्यान्। एमेव विणीयाणं, करेंति सुत्तत्थसंगहं थेरा। हावेंति उदासीणे, किलेसमागीय संसारे।। एवमेव कौटुम्बिकदृष्टान्तप्रकारेण ये विनीतास्तेषां स्थविरा आचार्याः सूत्राऽर्थसंग्रहं कुर्वन्ति, सूत्राऽर्थान् प्रयच्छन्ति, यः तदुदासीनस्तत्र हापयन्तीति न प्रयच्छन्तीति भावः / स चोदासीनो वर्तमानः सूत्राऽर्थयोग्यो न भवति, क्लेशभागी च संसारे जायते। गतंध्मापनद्वारम्। संप्रति दण्डिकदृष्टान्तं विभावयिषुरिदमाह - उप्पण्णकारणे पुण, जइ सयमेव सहसा गुरू हिंडे / अप्पाणं गच्छमुभयं, परिचयती तत्थिमं नायं // उत्पन्ने कारणे वक्ष्यमाणलक्षणे यदि सहसा स्वयमेव गुरुरात्मानं / गच्छमुभयं च परित्यजति, तत्र चेदं वक्ष्यमाणं ज्ञातमुदाहरणम्। तदेवाऽऽह - सोउं परबलमागयं, सहसा एक्कागिओ उ जो राया। निग्गच्छति सो चयती, अप्पाणं रज्जमुभयं च / / यो निरपेक्ष राज्ये परबलमागतं श्रुत्वा बलवाहनान्यमेलयित्वा सहसा एकाकी परबलस्य संमुखो निर्गच्छति, स आत्मानं राज्य-मुमयं च त्यजति बलवाहनव्यतिरेके ण युद्धाऽऽरम्भे मरण- भावात्। एवमाचार्योऽपि निरपेक्षः समुत्पन्नेऽपि कारणे सहसा भिक्षामटन्नात्मानं गच्छमुभयं च परित्यजति। उक्ता निरपेक्षदण्डिक-दृष्टान्तभावना। संप्रति सापेक्षदण्डिकदृष्टान्तभावनामाहसावेक्खो पुण राया, कुमारमादीहि परबलं खवियं / अजिए सयं पि जुज्झइ, उवमा एसेव गच्छे वि।। सापेक्षः पुना राजा प्रथम कुमारादीन् युद्धाय प्रेषयति, ततः | कुमारादिभिः परबलं क्षपयति, यदा कुमारैर्न परबलं क्षपितं, तदा तस्मिन्नजिते स्वयमपि राजा युध्यते। एषैवोपमा गच्छेऽपि द्रष्टव्या। आचार्योऽपि पूर्व यतनां करोति तथाऽपि असंस्तरणे स्वयमपि हिण्डते, एवं चाऽऽत्मानं गच्छमुभयं निस्तारयतीति भावः / संप्रति यः कारणैराचार्येण भिक्षार्थमटितव्यं, तानि कारणान्याह - अद्धाणकक्खडासति, गेलण्णादेसमाइएसुंतु। संथरमाणे भइतो, हिंडेज्ज असंथरंतम्मि॥ अध्वानं प्रपन्नः सार्थेन सममाचार्यो गच्छंस्तत्रचासंस्तरणे यदि सार्थिका आचार्यस्य गौरवेण प्रयच्छन्ति ततः स्वयमेवाचार्यो हिण्डते एवं कर्कशेऽपि क्षेत्रे भाषणीयं,तथा असति सहायानामभावे को भिक्षामानीय ददातीति स्वयं हिण्डते / तथा ग्लाना बहवस्ततस्तेषां सर्वेषामपि गच्छसाधवः प्रायोग्यमुत्पादयितुमशक्ता अथवा ग्लानप्रायोग्यमन्यः कोऽपिन लभते, तत आचार्यों हिण्डते, एवमादेशाः प्राघूर्णका आदिशब्दात् बालवृद्धाऽसहपरिग्रहस्तेष्वपि भावनीयम् / एतेषु विषयेषु असंस्तरति गच्छेनियमादाचार्यो हिण्डते अन्यथा प्रायश्चित्तसंभवात्संस्तरति पुनर्भक्तो विकल्पितः हिण्डते, कदाचित्न, अभ्युद्यतविहारपरिकर्म कुर्वन् हिण्डते, शेषकालं नेत्यर्थः / एष द्वारगाथासंक्षेपार्थः। अत्र यदुक्तं संस्तरणे न हिण्डते इति, तत्र संस्तरणं त्रिविधं जघन्यं मध्यममुत्कृष्टं च / तत्र जघन्यमधिकृत्याह - पंच वि आयरियादी, अत्यंते जहन्नए वि संथरणे। एमेवऽसंथरंते, सयमेव गणी अडति गामे / / जघन्येऽपि वक्ष्यमाणस्वरूपे संस्तरणे पञ्चाप्याचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदिनस्तिष्ठन्ति, जघन्येऽपीत्यपिशब्दः संभावने स चैतत्संभावयति / यदि तावत् जघन्येऽपि संस्तरणे पञ्चाप्याचार्यादयस्तिष्ठन्ति, ततो मध्यमे उत्कृष्ट संस्तरणे नियमात् पञ्चभिरपि स्थातव्यम्। एवमपिजघन्येनापि संस्तरणेनासंस्तरतिगच्छे स्वयमेव गणी आचार्यों ग्रामे भिक्षामटति। स च प्रतिलोम-परिपाट्या पर्यन्ते, तथाहि-जघन्येनापि असंस्तरतिप्रथमंगणाव-च्छेदको हिण्डते, तथाऽप्यसंस्तरणे स्थविरोऽपि हिण्डते, एव-मप्यसंस्तरणे प्रवर्त्यपि, तथाऽप्यसंस्तरणे उपाध्यायोऽपि तथापि चेत् न संस्तरति गच्छस्तत आचार्योऽपि। तत्र प्रथमत उत्कृष्ट-संस्तरणमाह - मंडलगयम्मि सूरे, उत्तिण्णा जाव पट्ठवणवेला। ता एंति भुत्तासेस-गया च उक्कोससंथरणे / / नभोमण्डलस्य मध्यगते सूर्ये मध्याह्ने इत्यर्थः, भिक्षार्थमव-तीर्णस्ततः पर्याप्त हिण्डित्वा यावत् तृतीयपौरुष्या आदौ स्वाध्यायप्रस्थापनवेला तावत्स निवर्तते, एतदुत्कृष्ट संस्तरणम् / अथवा तृतीयपौरुष्या आदी स्वाध्यायप्रस्थापनवेलायां स निवर्त्तते, एतदुत्कृष्ट संस्तरणम्। मध्यम जघन्यं चाऽऽह - सण्णातो आगयाणं, चउपोरिसि मज्झिमं हवति एयं / विसुयाविय मत्तदिणे, समतिऽत्थंते जहण्णं तु॥ मध्याह्नादारभ्य भिक्षार्थमवतीर्णानां पर्याप्त हिण्डित्वा वसतावागताना भुक्तानां सज्ञातः सज्ञाभूमित आगतानां यदि चतुर्थी पौरुषी अवगाहते, एतत् मध्यमं संस्तरणं भवति / मध्याह्नादारभ्य भिक्षामटित्वा भुक्त्वा सज्ञाभूमितः प्रत्या-गतमात्रेषु 'विसुयावियसु' विशोधितेष्वस्तमये पुनर्दिने समति जघन्य संस्तरणमवसातव्यं तदेवमुक्तं जघन्यादिभेदभिन्न संस्तरणम् / इदानीं मध्यादिद्वारव्याख्यानार्थमाह - अद्धाणेऽसंथरणे, अकोवियाणं विकरण पलंबे। एमेव कक्खडम्मि वि, असति त्ति सहायगा नस्थि / /