________________ अइसेस 21 - अभिधानराजेन्द्रः - भाग 1 अइसेस सभ्यानामपि परिभूतो भवति, ततो ये शैक्षकादयो ये च भद्रकादयस्ते तन्मुख निरुत्तरं दृष्ट्या परिणमन्ति, विपरिणाम भजन्ते। भिक्षार्थमनटने पुनरिमे गुणाः - सुत्तत्थाण गुणाणं, विजामंता निमित्तजोगाणं। वीसत्थे पइरिक्खे, परिजिणइ रहस्ससुत्ते य॥ सूत्रार्थानां तथा विद्यानां मन्त्राणां निमित्तशास्त्राणां योग-शास्त्राणांच गुणनं परावर्तनं भवति / तथा विश्वस्तः सन् प्रतिरिक्ते विविक्ते प्रदेशे रहस्यसूत्राणि परिजयति, अत्यन्तं स्वभ्यस्तानि करोति, तस्मान्न भिक्षार्थमटितव्यमाचार्येण / गतं वादिद्वारम्। इदानीमृद्धिमद्वारमाहरण्णा विदुवक्खरको, ठवितो सव्वस्स उत्तमो होति। गच्छम्मि वि आयरितो, सव्वस्स वि उत्तमो होई॥ राज्ञा व्यक्षरको दासो यद्यपि जात्या हीनस्तथाऽपि संस्थापितः सन् सर्वस्याप्युत्तमो भवति! उत्तमत्वाच यथा न कश्चन प्रेषणेन हिण्डाप्यते, सोऽप्येवं यथा तथा गच्छेऽप्याचार्यः सर्वस्याप्युत्तमो भवतीति स सुतरां भिक्षां न हिण्डापयितव्यः। रायामच्चपुरोहिय, सेट्ठी सेणावती तलवराय। अभिगच्छंतायरिए ,कहियं च इमं उदाहरणं / यथा तीर्थकरश्छास्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राधभिगमात् न हिण्डते / एवमाचार्यानपि आचार्यपदस्थापितान् राजा | अमात्यः पुरोहितः श्रेष्ठी सेनापतिः तलवराश्चाभिगच्छन्ति, ततस्तेऽपि भिक्षां न हिण्डन्ते। अन्यथा दोषस्तत्रेदमुदाहरणं तदेवाहसोऊण य उवसंतोऽमचो रण्णो तगं निवेदेइ। राया बितिए दिवसे, तइएऽमची य देवीय॥ राज्ञोऽमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः सचराज्ञः स्वकमाचार्य निवेदयति / यथा गुणवानतीवाचार्यो ऽमुकप्रदेशे तिष्ठति, ततो | द्वितीयदिवसे राजा अमात्येन सह गतः धर्म श्रुत्वा परितुष्ट आगतो निजाऽग्रमहिष्याः परिकथयति, अमात्येनाप्या-त्मीयभार्यायाः कथितं, ततोऽमात्यी देवी चतृतीयदिवसे धर्म-श्रवणाय समागते आचार्यो भिक्षार्थ गतस्ततः। सोउं पडिच्छिऊण, व गया अहवा पडिच्छणे खिंसा। हिंडंति हाँति दोसा, कारण पडिवत्तिकुसलेहिं। भिक्षार्थं गत इति श्रुत्वा ते हीलयित्वा गते / अथवा क्षणमात्र प्रतीक्ष्य हीलयन्त्यौ गते / यदि वा यावदाचार्य आगच्छति, तावत्प्रतीक्षमाणे हीलयतः। अथवा प्रस्विन्नशरीरंपरिगलत्-प्रस्वेदमागतं दृष्ट्वा खिंसतो, यदि वा क्लमेन सुष्टु कृतं वन्दनं वा सोमं कथयतो वा परिश्रमेण न सुष्ठ वचनविनिर्गमः, तत उत्थिते हीलयतः, यथा पिण्डोलक इवैष भिक्षामटति, किमाचार्यत्व-मेतस्य। एते भिक्षां हिण्डमाने दोषाः / यदि पुनः कारणे वक्ष्यमाणे भिक्षार्थं गतो भवेत्, राजादयश्च तत्र गतास्ते च पृच्छेयुः क्व गत आचार्यः ? तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं प्रतिवक्तव्यं भिक्षार्थ गत इति, किंतु चैत्यवन्दननिमित्तं गत इति / यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन्, तदा येऽतीव दक्षा गीतार्थास्ते सुन्दरंपानकं | प्रथमालिकां च सुन्दर कल्पं चोलपट्ट च गृहीत्वाऽऽचार्यस्य कथयन्ति। तत आचार्यो मुखहस्तपादादि प्रक्षाल्य प्रथमालिकां पानकं च कृत्वा / कल्पं प्रावृत्य पात्राणि अन्यस्य समर्प्य तादृशवेषो वसतावानीयते, यथाऽनाख्यातोऽपि राजादिभिर्जायते- एष आचार्य इति / ततो वसति प्राप्तस्यपाद-प्रोञ्छनं पादप्रमार्जनार्थमादाय साधव उपतिष्ठन्ति / पादप्रमार्जनान्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुप-विशति, उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौ कते, चरणप्रक्षालनानन्तरं च सर्वे साधयः पुरतः पार्श्वतः पृष्ठतो वा किंकरभूतास्तिष्ठन्ति, यथा राजा चकितस्तिष्ठति। एतदेवाऽऽह - कारणमिक्खस्स गते, विकज्जमन्नं निवस्स साहित्ता। निजोगनयनपढमा, कमादिधुवणं मणुण्णाइ / कारणे वक्ष्यमाणलक्षणे समापतिते भैक्षस्य गतेऽप्याचार्य नृपस्याऽन्यत्कार्यं कथयित्वा प्रथमालिकादेर्नियोगस्य नयनं ततः क्रमादिप्रक्षालनं ततो मनोज्ञप्रथमालिकावितरणम्। / कयकुरुकुय आसत्थो, पविसई पुव्वरइयनिसेजाए। पयया य होंति सीसा, जह चकितो होइ राया वि॥ कृतकुरुकुचः कृतकुलकुल आस्वस्थः प्रविशति प्रविश्य पूर्वरचिंतायां निषद्यायामुपविशति, ततः पादप्रक्षालनसमीपोप-वेशनप्रयतास्तथा भवन्ति, यथा राजाऽपि चकितो जायते। अत्र परप्रश्रमाहसीसा य परिचत्ता, चोयगवयणं कुद्रं बिसामणिया / दिट्ठतो दंडिएण, सावेक्खे चेव निरवेक्खे। चोदकवचनमाचार्य रक्षयित्वा शिष्या भिक्षायां प्रेषितास्तर्हि ते त्यक्ताः / आचार्य आह। अत्र कुटुम्बिगृहप्रदीपनदृष्टान्तः,तथा दण्डिकेन दृष्टान्तः सापेक्षो निरपेक्षश्वाचार्य एष द्वारगाथाक्षरार्थः / संप्रत्येनामेव विवरीषुः प्रथमतः सीसा य परिचत्ता, इति भावयति - वायादीया दोसा, गुरुस्स इतरेसि किं न ते होंति ? रक्खयसिस्सचाए, हिंडणतुल्ले असमता य॥ वातादयो दोषा गुरोर्भवन्ति इतरेषां साधूनां किं ते न भवन्ति ? भवन्त्येवेति भावः। ततो हिण्डने हिण्डनदोषे तुल्ये आत्मनो रक्षा क्रियते, शिष्याणां च त्याग इत्यसमता, नेदं समञ्जसमित्यर्थः। अन्यच्चदसविहवेयावच्चे, निचं अब्भुट्टिया असढभावा। ते दाणिं परिभूआ-अणुज्जमंताण दंडो य॥ दशविधे आचार्यादिभेदतो दशप्रकारे वैयावृत्त्ये नित्यं सर्वकालमशठ भावाः सन्तोऽभ्युत्थितास्ते संप्रति वातादिदोषान् पश्यद्भिरपि भिक्षाटने प्रेष्यमाणाः परित्यक्ताः। तथा दशविधे वैयावृत्त्ये नोद्यच्छन्ति, ततस्तेषामनुद्यच्छतामाचार्यादिवैया-वृत्त्याऽकरणे यथाऽर्ह प्रायश्चित्तं दण्डो दीयते तदेवं "सीसा य परिचत्ता' इति भावितम्। इदानी कुटुम्बिसामणियेति दृष्टान्तं भावयति - वुड्डीधन्नसुभरियं, कोट्ठागारं डज्झति कुडुबिस्स। किं अम्ह मुहा देइ, केई तहियं न अल्लीणा / / एकः कौटम्बिकः स कर्षकाणां कारणे उत्पन्ने वृद्ध्या कलाऽन्तररूपया धान्यं ददाति तया च वृद्ध्या कौटुम्बिकस्य कोष्ठाऽगाराणि धान्यसुभृतानि जातानि / अन्यदा च तस्यैक कोष्ठागारं वृद्धिधान्यसुभृतं वह्निना प्रदीप्तेन दह्यते तत्र के चित्कर्षका विध्मापननिमित्तं तत्र प्रदह्यमाने कोष्ठागारे समागतास्तत्र केचित्