________________ अइसेस 20. अभिधानराजेन्द्रः - भाग 1 अइसेस कं तमित्याह- कोऽसावपगुणः ? इत्याह-अन्यस्याऽपि साधो-दुल्लभं भवति भैक्षे, नैते यद्वा तद्वा गृह्णन्तीत्यदानात्।तथा अकारकस्य प्रतिषेधने कस्या अपि महत्या श्रद्धाया भङ्गः अपरस्या (अचियत्तं)अप्रीतिः,ततस्तवशादवर्णो जिहादोष उत्पद्यते / संप्रति यदुक्तं- राजनिमन्त्रणाऽग्रहणखिंसनमिति, तत्र तदेव खिंसनमाह - पुट्विं अदत्तदाणा, अकोविया इह उसंकिलिस्संति। काऊण अंतरायं, नेच्छंतिढेंवि दिज्जंते॥ आन्तप्रान्तादौ च दर्शिते राजा प्राऽऽह- पूर्वमदत्तदाना यूयं, तत इहाऽकोविदा अतत्त्वज्ञाः सन्तः क्लिश्यन्ते / तथाच राज-पिण्ड इत्यन्तरायं कृत्वा इष्टमपि दीयमानं भवन्तो नेच्छन्ति। गहणपडिसेहमुंजण, अमुंजणे चेव मासियं लहुयं / समणुण्ण अलंभे वा, खिंसेज्ज व सेहमादी य / / अकारकस्य ग्रहणे सति, यद्यन्यैः साधुभिः प्रतिषिध्यमानो- ऽपि भुङ्क्ते, तदाग्लानत्वमथ नभुङ्क्ते, तदा अभोजने पारि-ष्ठापनिकादोषः / तत्र च प्रायश्चित्तं मासिकं लघु / तथा यदि आचार्योऽलब्धिकः, तदा अमनोज्ञलाभे वा शैक्षकादयः खिंसेयुन किमपि क्वाऽपि गतो लभते, रिक्तमेतस्याऽऽचार्यत्वम्। वावारिया गिलाणा-दियाण(गेण्हह)जोगंति ते तओ बेति। तुम्मे कीस न गेण्हह, हिंडंताओ सयं चेव।। आचार्यो लब्धिहीनः सन् शिष्यान प्रातीच्छिकांश्च व्यापारयेत / यथा ग्लानादीनां ग्लानप्राघूर्णकप्रभृतीनां योग्यं गृह्णीत, त एवं व्यापारिताः सन्तो ब्रुवते- यूयं स्वयमेव हिण्डमांना ग्लानादिप्रायोग्यं कस्मात् न गृहीत? एवाणाए परिभवो, बेंति य दीसति य पाडिरूवं मे। आणेह जाणमाणा, खिंसंती एवमादीहिं।। एवमुपदर्शितेन प्रकारेण आज्ञायाः परिभव उत्पाद्यते, यथा- यदि यूयं प्रायोग्यं न लभध्वे, वयं कथं लप्स्यामहे ? एवमुक्ते यद्याचार्यो ब्रूतेआर्याः ! उद्यमेन किं न लभ्यते? तत एवमुक्ते रुष्टा ब्रुवते- दृश्यते खलु भे भवतां प्रातिहार्य साऽतिशयमाचार्यत्वं, स्वयमवजानतः कस्मात् नाऽऽनयत ? एवमादिभिरुच्चावचैर्वचनैः खिंसयन्ति, हीलयन्ति / गतमकारकद्वारम्ाव्यालद्वारमाहवालो य साणमादी, दिलुतो तत्थ होती छत्तेण। लोभे य आभिओगो, विसे य इत्थीकए वा वि॥ भिक्षामटतो व्यालः श्वप्रभृतिकः कदाचिल्लगति, तदा महत्यपभ्राजना। तत्र दृष्टान्तश्छत्रेण, यथा- छत्रमुपरि ध्रियमाणं शोभते, अधः पतितं तु न किमपि, एवमाचार्योऽपि बहुभिः परि-वारितो गच्छन् शोभते / तथा भिक्षाटनप्रवृत्तस्तु श्वादिपरिगृहीतो न किमपि / तथा प्रतिरूपवानाचार्यो भवतीति लोभेन गाथायां सप्तमी तृतीयार्थेऽभियोगो वशीकरणं स्त्रीकृतं स्यात् / विष वा केनचित् प्रद्विष्टेन दीयेत। एतदेवोत्तरार्धं व्याचिख्यासुराह - मोएउं असमत्था, बद्धं रुद्धं च नचणं कुसिया। जुवतिकमणिज्जरूवो, सो पुण सव्वे वि ते सत्तो।। युवतिकमनीयरूपतयाऽलीकदोषसंभावनया अन्यथा बद्धं रुद्ध नर्तकं नटानां नायकं कुसिता मोचयितुं न समर्थाः, तेषां तादृक्-स्वभावात् स / पुनर्युवतिकमनीयरूपस्तान् कुसितान् सर्वानपि केनाऽपि दोषेण बद्धान् रुद्धान् वा मोचयितुं शक्तः,ततो यथा स प्रयत्नेन रक्ष्यते, एवमाचार्योऽपि रक्षणीयो-ऽन्यथा दोषस्तथा चाऽऽह - एमेवायरियस्स वि, दोसा पडिरूववंच सो होइ। दिन वा स मिच्छुवासो, अभिजोगवसीकरणमादी। एवमेव नर्तकस्येवाऽऽचार्यस्याऽप्यरक्षितस्य दोषा भवन्ति / तथाहिसोऽपि प्रतिरूपवान् भवति, ततः कोऽपि भिक्षूपासको जिनप्रवचनप्रभावनामसहिष्णुर्विषं दद्यात् स्त्री वा काचिद् रूपलुब्धा अभियोगं कुर्यात् वशीकरणादि वा प्रयुञ्जीत, यस्मादेते दोषास्तस्मात् प्रयत्नेन रक्षणीयोऽन्यथा तदभावे गणस्याऽप्यभावाऽऽपत्तिस्तथा चाऽऽह - नचणहीणा व नडा, नायगहीणा च रूपिणी वा वि। वक्कं व तुंडहीणं, न हवति एवं गणो गणिणा / यथा नर्तनहीना नटा, यथा नायकहीना रूपवती स्त्री, यथा च वक्त्रं तुण्डहीनं न भवति, एवं गणिनाऽऽचार्येण विना गणोऽपि न भवति। तदेवं व्यालद्वारं गतम्। इदानीं गणचिन्ताद्वारमाह - लाभालाभद्धाणि, अकारके बालवुड्डमादेसे। सेहखमए न नाहिति, चिटुंतो नाहिति पुण सव्वे // केन पर्याप्त लब्धं ? केन वा न लब्धमिति न ज्ञास्यति, स्वयं भिक्षाटने परिश्रान्तत्वात्।तथा अध्वनिमार्गे ये परिश्रान्ताः समागमनप्राघूर्णकाः, तेषामिदं वाऽकारकं, तथा बालान् वृद्धान् पूर्वान् गतांश्चाऽऽदेशान् प्राघूर्णकान्, तथा शैक्षान् क्षपकांश्च करणीयसाराऽकरणतयानज्ञास्यति, स्वयं भिक्षापरिश्रमेण परिश्रान्तत्वात्। तिष्ठन् पुनः सर्वान् यथौचित्येन ज्ञास्यति, परिश्रमाऽभावात् / गतं गणचिन्ताद्वारम् / अधुना वादिद्वारमाह - सोऊण गतं खिंसति, पडिच्छिउच्चाय वादिपेल्लेइ। अत्थंति सत्थचित्ते, न होंति दोसा तवादी य॥ भिक्षामटितुं प्रवृत्ते आचार्ये वादी कोऽपि समागतः, तेन साधव उक्ताःक्व आचार्याः ? साधुभिरुक्तं- भिक्षाटनाय गतः। ततः स भिक्षाऽर्थ गतं श्रुत्वा खिंसति हीलयति, एतावत् तस्य पाण्डित्यं, यः स्वयं भिक्षामटति। ततः क्षणमात्रं प्रतीक्षितः स चाऽऽचार्य उद्भ्रान्तः समागतः, तं समागतं दृष्ट्वा वादी प्रेरयति / स च परिश्रान्तत्वादुत्तरं दातुमसमर्थस्तिष्ठति। पुनः स्वस्थचित्ते दोषास्तापादयः, आदिशब्दात् तृषितादिपरिग्रहो भवति / तथा च सति न वादिना तस्य प्रेरणं, किंतु जयति / वादी समागतो भिक्षार्थं गत इति श्रुत्वा यदि गच्छेत्, तदुपदर्शयतिपागडियं माहप्पं, विण्णाणं चेव सुतु ते गुरुणो। जइ सो वि जाणमाणे, न वि तुभमणाढितो हुँतो // भिक्षार्थंगत इति ब्रुवाणैर्भवद्भिः सुष्ठु अतिशयेन माहात्म्यंगरिमलक्षणं विज्ञानं च प्रकटितम्।यदि सोऽपिज्ञाता भवति, न चैष युष्माकमनादृतो भवेत्। अधुना "पडिच्छिउचाय वादि पिल्लेइ' इति व्याख्यानयति - न वि उत्तराणि पासइ, पासाणियाणं च होति परिभूतो। सेहादिभद्दगा वि य, दटुं अमुहं परिणमंति॥ स भिक्षाटनपरिश्रान्तः सन्, न च, नैव उत्तराणि पश्यति, परि-श्रमेण बुद्धेः सव्यापादनात् / तथा च सति स प्राधिकानामपि