________________ अइसेस 19 - अभिधानराजेन्द्रः - भाग 1 अइसेस तथा गणाऽऽलोके अक्रियमाणे को दीर्घ कालं भिक्षाचर्या करोति, को वा नेति केन ज्ञायते ? तथा भिक्षा-मटत्याचार्य भिक्षाचर्यात आगतानामालोचनायां कः शोधिं करोति / तथा भिक्षां हिण्डमाने सूरौ कोऽपि गृहनिषद्यां वाहयति,एतत् न ज्ञायते। सो आवस्सयहाणिं, करेज मिक्खालसा व अत्थेजा। तेण तिसंझालोग सिस्साण करेइ अत्थंतो॥ भिक्षामटत्याचार्ये ये आवश्यककर्तव्या योगास्तेषां यः प्रमादतो हानि करोति, स न ज्ञायते / तथा आचार्य एवाऽस्माकं भिक्षामानेष्यतीति के चित् भिक्षाऽलसा वसतावेव तिष्ठेयुर्न भिक्षामटेयुर्यत एवं गणाऽऽलोकेऽक्रियमाणे इमे दोषाः, तस्मात् तिसृष्वपि संध्यासु शिष्याणामालोकं तिष्ठन् भिक्षाऽहिण्डमानः करोति / गतं गणाऽऽलोकद्वारम्। अधुना कायक्लेशद्वारमाह - हिंडंतो उव्वातो, सुत्तत्थाणं च गच्छपरिहाणी। नासेहिति हिंडतो, सुत्तं अत्थं च अप्पाणं // हिण्डमानः पुनर्भिक्षा महान कायक्लेश इति (उव्वातोत्ति) परिश्रान्तो भवति, परिश्रान्तत्वात् सूत्रमर्थ इति शिष्येषु प्राती-च्छिकेषुच सूत्राऽर्थानां परिहाणिस्ततो गच्छस्याऽपि परिहाणिः शिष्याणां प्रातीच्छिकानां चाऽन्यत्राऽन्यत्र गणाऽन्तरे संगमात् / तथा हिण्डमानः सूत्रमर्थ चाऽऽरेकेणाऽक्षेपेणाऽऽत्मनो नाशयिष्यति। गतं कायक्लेशद्वारम् / इदानीं चिन्ताद्वारमाह - जा आससिउं मुंजइ, भुत्तो खेयं च जाव परिणेइ। ताव गतो सो दिवसो, नसती दाहिती किं वा / / यावद् भिक्षामर्थयित्वा क्षणमात्रमाश्वस्य भुङ्क्ते, भुक्तोऽपि च स्वेद भिक्षाटनपरिश्रमं यावत् प्रतिनयति स्फोटयति, तावद् दिवसः सकलोऽपि गतस्ततो नाऽस्ति सा वेला यत्र सूत्रस्याऽर्थस्य वा चिन्तां करोति, / अचिन्तितं च विस्मृतिमुपयाति, ततो नष्ट-स्मृतिः किं दास्यति ? न किमपीति भावः / वाशब्दो दूषण-समुच्चये। एतदेव सुव्यक्तं भावयतिएगा नत्थि दिवसतो, रत्तिं पिन जग्गते समुग्घातो। न य अगुणेउं दिज्जइ, जइ दिज्जइ संकितो दुहतो / नाऽस्तिएको विविक्तोऽवसरो दिवसमध्ये,यत्रसूत्रमर्थ वा चिन्तयति, रात्रावपि समुद्घातः सम्यक् परिश्रान्तो न जागर्त्ति / न च सूत्रमर्थं वा अगुणयित्वादीयते।यदि पुनर्दीयते, तर्हि द्विधातः सूत्रतोऽर्थतश्च शङ्कितो भवति / गतं चिन्ताद्वारम्। अधुना मेढिद्वारमाह - मेढीभूते बाहिं, मुंजण आदेसमाइ आगमणं / विणए गिलाणमादि, अत्यंते मेढिसंदेसा॥ आचार्यः सर्वस्याऽपि गच्छस्य मेढीभूतः मेदिरिति वा आधार इति वा चक्षुरिति वा एकाऽर्थ, स चेद् भिक्षां गच्छति, ततः साधूनां वसतेर्बहिर्यदृच्छया भोजनं स्यादेतदनन्तरमेव भावयिष्यते। तत एवं ज्ञायते केचिदादेशाः प्राघूर्णका आगच्छेयुरादि-शब्दात्केचिदलब्धिका लब्धिपरिहीनाः ततस्तेषामादेशा-दीनामागमनं ज्ञात्वा कः प्राघूर्णकानां विश्रामणं संदेश वा कुर्यात् ? को वा लब्धिपरिहीनानां यत् नाऽस्ति, तस्य दानम् ? प्राघूर्णकानामितरेषां च वात्सल्याऽकरणे विनयो न कृतः स्यात् / तथा ग्लानस्याऽऽदिशब्दात् बालवृद्धाऽसहायानां च कः संदेशप्रदानेन चिन्तां कुर्यात् ? तिष्ठति भिक्षामनटति आचार्ये मेढेः संदेशादादेशात् सर्वमादेशादि सुस्थं भवति। संप्रति यदुक्तं "बाहिं भुंजणत्ति' तद् भावयति - आलोयदायणं वा, कस्स करेहामु कं च छंदेमो। आयरिए य अडते, को अत्थिउमुच्छहे अन्नो। शिष्याः प्रातीच्छिकाश्च भिक्षां प्रविष्टाश्चिन्तयन्ति,सूरिरपि भिक्षार्थ निर्गतो भविष्यति, ततो वयं संप्रति प्रतिश्रयं गत्वा कस्य पुरतः आलोचयिष्यामः? कस्य वा भक्तं पानं वा दर्शयिष्यामः ? कं चाऽन्यं साधुं तत्र गताश्छन्दयामो, निमन्त्रयामो ? यतो भिक्षामटत्याचार्ये कोऽन्यः साधुःस्थातुमुत्सहते? सर्वोऽपि भिक्षां यातीति भावः। तथाहिसर्वे साधवो भिक्षामटत्याचार्ये चिन्तयन्ति, यदि स्वयमाचार्यो भिक्षां हिण्डते, काऽस्माकं शक्तिः ? पश्चात् स्थातुं वयमपि यास्यामः। एवं सर्वस्याऽपिगमने निमन्त्रणाऽपि कस्य स्यादिति विचिन्त्य बहिरेव समुद्दिश्य वसतावागच्छेयुरिति / गतं मेढिद्वारम्। इदानीमकारकद्वारमाह - णिक्कासिते अकारगम्मि, दय्वे पडिसेहणा हवति दुक्खं / रायनिमंतणऽगहणे, खिंसणवावारणा दुक्खं / / भिक्षामटत आचार्यस्य यदकारकं, तस्य तत् भिक्षाऽर्थ निष्काशितं, तस्मिन् अकारके द्रव्ये भिक्षाऽर्थ निष्काशिते प्रतिषेधनं - ममैतदकारकमन्यद् देहीति वक्तुं लज्जितो भवति दुःखं, यदि पुनर्लजा मुक्त्वा भणति, तदाऽनन्तरं वक्ष्यमाणा गाथाद्वयोक्ता दोषाः / तथा भिक्षामटत्याचार्य राज्ञा मत्त-वारणकस्थितेन दृष्टस्तत आकारयित्वा भणितो- मम गृहे भिक्षां गृहीत, स प्राऽऽह-न कल्पते राजपिण्ड इति। एवं निमन्त्रणाऽनन्तरमग्रहणे राज्ञा भण्यते साधो ! किं तव पतद्ग्रहे समस्ति? ततो दर्शितेऽन्तप्रान्तादिके वासिकादौ च, राजा तत् दृष्ट्या खिंसनं कुर्यात्। तथा आचार्योऽलब्धिको भवेत्, स चेत् ग्लानादिनिमित्तं शिष्यान् प्रातीच्छिकांश्च व्यापारयेत, तथा ग्लानादीनां योग्यमानयेति। तेचाऽलब्धिकं ज्ञात्वा परिभव-मुत्पादयन्तीति तेषां व्यापारणे दुःखमेवेति द्वारगाथासमासार्थः / सांप्रतमेनामेव विवरीषुर्लज्जां मुक्त्वा अकारकद्रव्यप्रति-षेधने दोषाः। तानेवाऽऽह - जेणेव कारणेणं, सीसमिणं मुंडियं भदंतेण। वयणघरवासिणी विहु,न मुंडिया ते कहं जीहा।। येनैव कारणेन हेतुना भदन्तेन गुरुणा तव शीर्षमिदं मुण्डितं, तेनैव कारणेन तव जिह्वाऽपिवदनगृहनिवासिनी- ममैतदकारक-मन्यदेहीति बुवाणा कथं न मुण्डिता? येनैवं भाषते, यथागयमागमम्मि लोए, सीसा वि तहेव तस्स गच्छंति / सयमेव दुट्ठजिब्भा, सीसे विणइस्सती केण / / गताऽऽगतोऽयं स्वभावतो लोकः, पितृस्वभावं पुत्रोऽनुकरोतीति भावः / ततो गतागतेऽस्मिन् लोके यथाऽऽचार्यों गच्छति, चेष्टते, शिष्या अपि तस्य तथैव गच्छन्ति, वर्तन्ते। त्वं च स्वयमेवेत्थं दुष्टजिह्वः, ततः केन प्रकारेण शिष्यान् विनेष्यसि शिक्षयिष्यसि ? नैव कथञ्चनेति। ततस्तेऽपि त्वत्सदृशा भविष्यन्तीति। पडिसेहतमजोग, अण्णस्स वि दुल्लहं हवइ भिक्खं / सद्धाभंगचियत्तं, जिब्भादोसो अवण्णो य॥ अयोग्यमकारकं प्रतिषिध्यमानं महान्तमपगुणं करोति,