________________ अइसेस 17 - अभिधानराजेन्द्रः - भाग 1 अइसेस स्यात्, ततोमा भूद् दिग्मोह इत्यन्योऽपिजनः त्रिसंख्याकः पृष्टः, सोऽपि तथैवाऽऽह, यथा- पूर्वाभिमुखी गङ्गा वहतीति / एतच्च राज्ञा प्रत्ययिकप्रच्छन्नपुरुषैः परि(भावितं) भावापितं तैरपि तथैव कथितम्, ततो राजा प्राहवहबंधछेयमारण -निव्विसयधणवहार लोगम्मि। भवदंडो उत्तरितो, उच्छहमाणस्स तो बलितो।। लोके योऽस्माकमाज्ञां भनक्ति, तस्य वधं / लकुटादिप्रहारैः ताडनं, बन्धं निगडादिभिश्छेदं कर्णच्छेदादिकं, केषाश्चित मारणं विनाशनमपरेषां निर्विषयकरणमन्येषां धनाऽपहारं कुर्मः,तथाऽपि केचिदस्माकमाज्ञां भञ्जन्ति।लोकोत्तरेषु पुनरेषां भञ्जतामेतानिन भयानि सन्ति, तथाऽपि परेण प्रयत्नेन लोकोत्तरिका आज्ञां कुर्वन्ति, तत्र किं कारणम् ? आचार्य | आह "भवदंडो' इत्यादि पश्चार्द्ध, यस्तीर्थकरगणधरादीनामाज्ञां भनक्ति, तस्य परभवे हस्तच्छेदनादीनि भवन्ति / एष लोकोत्तरे भवदण्डः / अस्माद् भीतस्य साधोरुत्सहमानस्य स्वशक्त्यनिगहनेनोद्यम कुर्वतो विनयो बलीयान् / एवं लोकोत्तरिको विनयो बलिकः। / अत्रैवाऽपवादमाहबितियपयं असतीए, अण्णाए उवस्सयवसागारो। न पवत्तति सन्ने वि,जे य समत्था समं तेहिं / / कुपहादीनिग्गमणे, नातिगभीरे अपचवायम्मि। वोसिरियम्मिय गुरुणा, निसिरंति महंतदंडधरा / / द्वितीयपदमपवादपदमधिकृत्य संज्ञाभूमिमाचार्यों व्रजेत् / तदेव द्वितीयपदमाह- उपाश्रये च पश्चात्कृते संज्ञाभूमिर्नाऽस्ति, ततस्तस्या असति, बहिजेत्। (अण्णाएत्ति) यत्र न ज्ञायते-एष आचार्यस्तत्राऽपि बहिर्ब्रजेत्। अथवा उपाश्रये सागारिको विद्यते ततो बहिर्याति कस्याऽपि पुनरुपाश्रयस्य पश्चात्कृते विद्यमाने- ऽपि संज्ञा न प्रवर्त्तते, सोऽपि बहिर्याति / एतैः कारणैर्बहिर्गमनम्। तत्र ये समर्थास्तरुणाः साधवस्तैः समंयाति। तत्र यानि कुपथादीनि कुरथ्यादीनि, तैर्गन्तव्यं, तैर्गच्छतोऽपि प्रायः पूर्वोक्ता दोषा न भवन्ति / तत्राऽपि यत् नाऽतिगम्भीर नाऽतिविषममप्रत्यवायं प्रत्यवायविरहितं, तत्राऽऽचार्यः संज्ञा व्युत्सृजति / येषां च सहायानां हस्ते महान्तो दण्ड कास्ते महादण्डधराश्चतसृष्वपि दिक्षु संरक्षण-परायणास्तिष्ठन्ति, व्युत्सृष्टे च गुरुणा पुरीषे ते महादण्डधरास्त-तस्तरन्ति / कस्मादेवं रक्षा क्रियते इति चेत् ? कुलस्य तदायत्त-त्वात्। उक्तञ्च "जम्मि कुलं आयत्तं, तं पुरिसं आयरेण रक्खाहि" इत्यादि। कथंपुनः स रक्षितव्य इत्यत आह - जह राया तोसलिओ, मणिपडिमा रक्खए पयत्तेण। तह होइ रक्खियव्वो, सिरिघरसरिसोय आयरितो।। यथा राजा तौसलिको मणिप्रतिमेच प्रयत्नेन रक्षति, तथा भवत्याचार्यो रक्षितव्यः। यतः श्रीगृहसदृश एष आचार्यः। __अथ के ते प्रतिमे इत्यत आहपडिमुप्पत्ती वाणिय, उदहिप्पातो उवायणं भीतो। रयणदुगे जिणपडिमे, करेमि जइ उत्तरे विग्धं // उप्पाउवसमउत्तर-मविग्घर एक्कपडिमं वा। देवयछंदेण ततो, जाया बितिए विपडिमा तो।। प्रतिमयोरुत्पत्तिर्वक्तव्या सा चैवमेकस्य वणिजः समुद्र प्रवहणेनाऽवगाढस्योत्पात उपस्थितः / ततः स औपयाचितिकं करोति / यथा- यदेतदौत्पातिकमुपशाम्यति, अविनेनोत्तरामि च ततोऽनयोयोमणिरत्नयोझै मणिमय्यौ जिनप्रतिमे कारयिष्यामि, एवमौपयाचितिके कृते देवताऽनुभावेनौत्पातिकमुपशान्त- मविधं समुद्रोत्तरणमभूत्, स चोत्तीर्णः सन् लोभेन एकस्मिन् मणिरत्ने एकां जिनप्रतिमां कारयति, ततो देवतया द्वितीये मणिरत्ने द्वितीया जिनप्रतिमा कारिता। तथा चाह-देवताच्छन्देन ततो जाता द्वितीयेऽपि मणिरत्ने प्रतिमा। तो भत्तीए वणितो, सुस्सूसइता परेण जत्तेणं / तादीवएण पडिमा, दीसंतिहरा उ रयणाई॥ ततः कारापणाऽनन्तरं ते प्रतिमे वणिको भक्त्या परेण यत्नेन शुश्रूषते / ततः तयोश्च प्रतिमयोरिद प्रातिहार्यतेप्रतिमेयावद्दीपकः पार्वे ध्रियते, तावद् दीपकेन हेतुना प्रतिमे दृश्येते, इतरथा दीपकाऽभावे सप्रकाशे अपि मणिरत्ने दृश्येते। सोऊण पाडिहेरं,राया घेत्तूण सिरिहरे छुहति। मंगलभत्तीए तो, पूएति परेण जत्तेण // इदमनन्तरोदित प्रातिहार्यं राजा तौसलिकः श्रुत्वा ते प्रतिमे स्वयमेवात्मीयश्रीगृहके भाण्डारे क्षिपति मुञ्चति, ततो मङ्गल-बुद्ध्या भक्त्या च परेण यत्नेन ते पूजयति / यस्मिश्च दिवसे ते प्रतिमे श्रीगृहमानीते, ततः प्रभृति राज्ञः कोशादिषु वृद्धिरुपजाता / ततः श्रीगृहसदृश आचार्य इत्युक्तं, तत एवं दृष्टान्तभावना कर्तव्या यथा राजा श्रीगृहं प्रयत्नेन रक्षयति, एवमाचार्योऽपि रक्षणीयः ततः कथमत्र मणिमयप्रतिमाभ्यां दृष्टान्तभावना कृता? उच्यते - मंगलमत्ती अहिया, उप्पज्जइ तारिसम्मिदव्वम्मि। रयणग्गहणं तेणं, रयणभूतो तहायरितो॥ श्रीगृहे द्रविणं रक्षणीयं मणिमयप्रतिमयोः पुनद्रविणमपि अतिप्रभूतमस्ति,मङ्गलबुद्धिश्च / तत्राऽपि परमतीर्थकरभक्तिश्च इति / प्रयत्नेन रक्षणे त्रीणि कारणानि तथा चाऽऽह- मङ्गलं मङ्गलबुद्धिर्भक्तिश्चाऽधिका तादृशे द्रव्ये समुत्पद्यते, ततो रत्नग्रहणम्। यथा- ते रत्नप्रतिमे कारणत्रयवशाद्विशिष्टेन प्रयत्नेन रक्ष्येते शुश्रूष्येते च, तथा शिष्यैराचार्यः प्रयत्नेन रक्षणीयः शुश्रूषणीयश्च / अथैवमाचार्ये रक्षिते शुश्रूषिते च को गुणः? इत्यत आहपूयंति य रक्खयंति य, सीसा सव्वे गणिं सया पयया। इह परलोए य गुणा, हवंति तप्पूयणे जम्हा॥ गणिनमाचार्य शिष्याः सर्वे सदा प्रयताः प्रयत्नपराः पूजयन्तिशुश्रूषन्ते च, यस्मात् तत्पूजने आचार्यपूजने इह लोके परलोके च गुणा भवन्ति। इह लोके सूत्राऽर्थं तदुभयमुपयाति, परलोके सूत्राभ्यामधीताभ्यां ज्ञानादिमोक्षमार्गप्रसाधनम् / अथवा पारलौकिका गुणाः "आयरिए वेयावचं करेमाणे महानिञ्जरे महापज्जवसाणे भवति" इत्येवमादयः। गतो द्वितीयोऽतिशयः। संप्रति तृतीयमाह- "इच्छाए पहू वेयावडियं करेजा" इत्येवं- रूपमतिशयमभिधित्सुराह - जेणाहारो उगणी, सबालवुड्ढस्स होइ गच्छस्स। तो अतिसेसपमुत्तं, इमेहिं दारेहिं तस्स भवे / / येन कारणेन गणी आचार्यः सबालवृद्धस्य गच्छस्याऽऽधारः, ततस्तस्य भवत्यतिशेषप्रभुत्वमतिशायिप्रभुत्वं, तचैभिः वक्ष्यमाणैः द्वारैरवगन्तव्यम्।तान्येवाऽऽहतित्थयरपवयणे निज्जरायसावेक्खभत्तिऽवोच्छेतो।