________________ अइसेस १६-अभिधानराजेन्द्रः - भाग 1 अइसेस राज्ञः ऋद्धिमतांचाऽन्येषामाचार्यसमीपे आगमनं आचार्ये च संज्ञा भूमि गते दण्डिकादिरागतो भवेत्, ततः संज्ञाभूमिं गतश्चा-ऽऽचार्य इति श्रुत्वा प्रतिनिवर्तन्ते, यदि पुनः संज्ञाभूमिं न गता आचार्या भवेयुस्ततो धर्म श्रुत्वा कदाचित् ते प्रव्रज्यां गृह्णीयुः, प्रव्रजितेषु च राजादिषु महती प्रवचनप्रभावना / तथा श्रावकत्वं केचित् कदाचित् प्रतिपद्येरन्, यथाभद्रका वा भवेयुः,तथा च चैत्यसाधूनां महानुप-ग्रहः। संज्ञाभूमिगमने चैतेषां गुणानां हानिः / संप्रति ''सुत्तत्थाणं च गच्छे परिहाणी'' इत्येतद्व्याख्यानार्थमाह - सुत्तत्थे परिहाणी, वीयारं गंतु जा पुणो एति। तत्थेव य वीसरणे, सुत्तत्थेसुं न सीयंते॥ विचारं विचारभूमिं गत्वा यावत् पुनरेति तावत्सूत्रार्थपरिहाणिः। इयमत्र भावना- संज्ञाभूमिळूरे भवेत्,सूत्रपौरुष्यामर्थपौरुष्यां चाऽर्द्धकृतायामाचार्यः संज्ञावान ज्ञातस्ततो गतः संज्ञाभूमि, तत उद्घाटायां पौरुष्यामर्थपौरुष्यां कालवेलायां समागतः, ततः सूत्रार्थपरिहाणिः, तद्भावाच शिष्याः प्रातीच्छिकाश्चाऽन्यं गणं व्रजन्ति, ततो गच्छस्याऽपि परिहाणिः, तत्रैव पुनरुपाश्रये संज्ञाया व्युत्सृजने सूत्रार्थेषु साधवो न सीदन्ति / अत्र चाssवश्यकं कुर्वन् अकुर्वन् च कुमारो दृष्टान्तः। एवमेव भावयतितीरगए ववहारे, खीरगते होंति तदिह उहाणे। कोसस्स हाणि परचम्मु-पेल्लण रजस्स अपसत्थे। कुमारस्याऽऽस्थाने समुपविष्टस्यार्थिनः प्रत्यर्थिनश्व व्यवहारेणोपस्थिताः, तेषां चोत्तरोत्तरेण व्यवहरतां व्यवहारस्तीरं गतः, परं नाऽद्यापि समाप्तिमुपयाति, तस्मिश्चाऽसमाप्ते व्यवहारे सति राजकुमारः संज्ञावान् जातस्तत उत्थाय संज्ञाभूमिं गतः, सच यावन्नाऽऽयाति, तावदर्थिनः प्रत्यर्थिनश्च क्षीरोदकसंयोगादिवदेकीभूतास्ततो राजकुमारस्य प्रत्यागतस्य ते ब्रुवते - वयं परस्परं स्वस्थीभूताः / एवं सदा सर्वत्र समस्तादपि लक्षादिप्रमाणाद् दण्डाऽऽयपदात्परिभ्रष्टास्ततः कोशस्य हानिर्जाता, तांच ज्ञात्वा परचमूः परबलमागच्छेत्, तया च राज्यस्य प्रेरणमेषोऽप्रशस्ते दृष्टान्तः / प्रशस्ते पुनदृष्टान्तः स्वयं भावनीयः / स चाऽयं- प्रथमत एवाऽऽवश्यकमुच्चारादेः कृत्वा आस्थाने समुपविशति, उपविष्टो यदि संज्ञावान् भवति, ततः प्रच्छन्ने प्रदेशे व्युत्सृजति। एवं तस्य कुर्वतः प्रभूतं प्रभूततरं दण्डायपदं जातं, तथा च सति कोशस्य महती वृद्धिस्ततः परबलस्य प्रेरणं राज्यान्तरसंग्रहः। एष दृष्टान्तो-ऽयमर्थोपनयः / य आचार्यो बहिस्संज्ञाभूमि व्रजति, तस्य प्रागुक्तप्रकारेण सूत्राऽर्थपरिहाणिस्तत्परिहाण्या गच्छस्याऽपि परिहाणिः शिष्याणां प्रातीच्छिकाना चाऽन्यत्र गणान्तरे गमनात् / यस्तु तत्रैवोपाश्रये व्युत्सृजति, तस्य न किंचिदपि परिहीयते, इति सर्वं सुस्थम् / एतदेवाऽऽह - वेलं सुत्तत्थाणं, न मंजए दंडियादिकहणं वा। पच्छण्णअमयकोसे , पुच्छा पुण सोहणा विणए / यथा बहिनिर्गन्तव्यमेवं ग्रामादीनामन्तरपि सूत्रार्थानामपरिहाणिनिमित्तं दण्डिकादीनामागतानां धर्मकथाया अविघ्र- निमित्तं च संज्ञाव्युत्सृजनाय न गन्तव्यं, किन्तूपाश्रयस्या-ऽन्तर्युत्सर्जनीयं येन सूत्राऽर्थवेला न भनक्ति,नाऽपि दण्डिका-दीनामागतानां धर्मकथनं | विघ्नयति। पूर्वमेव चोपयोगः कर्तव्यः - किं मम संज्ञा भवेत्, न वा ? तत्र यदि शङ्का, तदा कृताऽऽवश्यकेन सूत्रपौरुष्यामर्थपौरुष्यां च सूत्राऽर्थप्रदानायोपवेष्टव्यं, तत्राऽपि न तावदासितव्यं यावदवश्यमुत्थेयं भवति, किन्त्वने, अत्राऽर्थे निदर्शनमेक आचार्य आवश्यकं शोधयित्वा तिष्ठति, दण्डिकश्च धर्मश्रवणार्थमागत आचार्येण धर्मकथा प्रारब्धा, स च धर्मकथाक्षिप्तो राजकुमारो धर्म शृण्वन् अभीक्ष्णमभीक्ष्ण कायिकीव्युत्सृजनायोत्तिष्ठति,आचार्यस्य प्रच्छन्नो मूत्रकोशः समय॑ते, प्रच्छन्नं कायिकीमात्रकं साधवः समर्पयन्ति, तत्र कायिकी व्युत्सृजति। ततो विनये लोकोत्तरिक चलवति राज्ञः पृच्छा आचार्यस्य कथनगतदे विभावयिषुरिदमाहनिद्धाहारो वि अहं, असई उडेमि नेस कहयंते। पासगतो तं (सण्ण) मत्तं, वत्थंतरियं पणामेइ। राजा चिन्तयति- मम स्निग्ध आहारः, तथाऽपि कायिकी-व्युत्सर्गाय पुनः पुनरुत्तिष्ठामि / आचार्यस्तु कथयन् रूक्षाहारो -ऽपि कायिकीव्युत्सर्गाय नोत्तिष्ठति, नूनं मध्ये य एष आचार्यस्य पार्श्वे स्थितः क्षुल्लकः, स तत्कायिकीमात्रं प्रच्छन्नं वस्त्रा-ऽन्तरितं प्रणमयति, समर्पयति, तत्र कायिकीमाचार्यो व्युत्सृजति / एतच्च यदि पृच्छयते, तीविनयः कृतो भवति, तस्मादुपायेन पृच्छामीति विचिन्त्येदं पृच्छति - विणओ लोइयलोउ-त्तरिओ त्तिय बली ततो गंगा। कतोमुही अचलंतो, भणिति निवं आगिति जतो।। राजा सूरिमापृच्छति- भगवन् ! किंलौकिको विनयो बलीयान्, अथवा लोकोत्तरिकः ? आचार्येणोक्तमयमर्थः परीक्षता परमेवं ज्ञायतेलोकोत्तरिको विनयो बलीयान्। तत्र परीक्षा कर्तुमारब्धा, आचार्येणोक्तंयस्तव दृष्टि प्रत्ययो, यं वा कृत्वा त्वं जानासि-न एष विनयभंसी, तं प्रेषय। यथा-कुतोमुखी गङ्गावहतीति ज्ञात्वा निवेदय। ततो राजा य आकृतिमान् यश्च दृष्टप्रत्ययः, तं प्रेषयति / यथा- व्रज, कुतोमुखी गङ्गा वहति ? सोऽचलन् तत्रैव स्थितो नृपं भणति, यथापूर्वमुखी गङ्गा वहति।लोकोऽप्यन्य एतत् जानाति। तत आचार्यो ब्रूतेमम शिष्याणांमध्ये यंत्वं विषमकरणनाशादिभिर्विषमंजानासि। उक्तञ्चविषमसम-विषमसमा,विषम-विषमाः समैः समाचाराः / करचरणवदननासा कर्णाष्ठनिरीक्षणैः पुरुषाः।।१।। विषमत्वाच विनयभंसं करिष्यतीति तं प्रेषय। रण्णा पयंसितो एस, वयओ अविणीयदंसणो समणो। पच्छागय उस्सगं, काउं आलोयए गुरुणो॥ एवमाचार्येणोक्ते राज्ञा यो विषमकरचरणादिना अविनीत- दर्शनः श्रमणः प्रदर्शितः / एष व्रजतु, कया दिशा गङ्गा वहतीति आचार्येण संप्रेषितः, स आचार्यानापृच्छ्य तत्र गत्वा, ततः प्रत्यागत्यैर्यापथिक्याः कायोत्सर्ग कृत्वा गुरोः पुरत आलोचयति / कथमित्याह - आदिबदिसा लोयण-तरंगतणमाइया य पुव्वमुही। मोहो य दिसाए मा होउ, पुट्ठो त्ति जणो तहेव अण्णो वि।। हे भगवन् ! युष्मत्पादानापृच्छ्याऽहं गङ्गातट गतः, तत्र च गत्वा सूर्य निातवान्, यत आदित्याद् दिग्विभागः सम्यक् ज्ञायते, एवमादित्यदिगालोचनं कृतं, तथा तरङ्गैस्तृणादीनि पूर्वाभिमुखान्यूह्यमानानि दृष्टानि, तत्र कदाचिद् दिग्मोहोऽपि