________________ अइसेस १५-अभिधानराजेन्द्रः- भाग 1 अइसेस वसतेबहिः सागारिकं ध्रुवकर्मिकं वा लोहकारादिकमन्येन वा कार्येणाऽन्यमपि सागारिकमनतिपातिनमिच्छन्तं तथा अव्याक्षिप्तमायुक्तं च ज्ञात्वा भिक्षुरपि बहिर्नोदीक्षेत न प्रतीक्षेत, किन्तु वसतिं प्रविश्यात्मीयावकाशे यतनयाऽऽत्मनः पादौ प्रमार्जयेत्। प्रथमोऽतिशयो गतः। आचार्योपाध्यायस्य अन्त-रुपाश्रयस्य उच्चारप्रस्रवणत्यजननामा द्वितीयाऽतिशयः। संप्रति द्वितीयं विभावयिषुरिदमाह - बहिगमणे चउगुरुगा, आणादी वाणिए य मिच्छत्त। पडियरणमणाभोगे,खरमुहीमरुए तिरिक्खादी॥ आचार्यो यदि विचारभूमि बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च दोषाः। तथा- वाणिए य मिच्छत्तमिति, वणिजे अभ्युत्थानं पूर्वं कृतं भवति पश्चादकुर्वति केषाञ्चित् मिथ्यात्वमुपजायते / इयमत्र भावना - आचार्य संज्ञाभूमिं व्रजन्तंततःप्रत्यागच्छन्तं च दृष्ट्वा वणिजो निजनिजापणे स्थिता अभ्युत्थानं कृतवन्तस्तं च तथा वणिजां बहुमानेनाऽभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते- गुणवानेष आचार्यों येन वणिज एवमेन-मभ्युपतिष्ठन्ति,तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति / यदा त्वाचार्यः कदाचित् द्वौवारौ संज्ञाभूमिं व्रजति,तदाचतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं, ते चालस्यं मन्यमाना अभ्युत्थातव्यं भविष्यतीति कृत्वा आचार्यं दृष्ट्वाऽन्यतो मुखं कुर्वन्ति, तांश्च तथा कुर्वतो दृष्ट्वा अन्ये चिन्तयन्ति- नूनमेष प्रमादी जातो ज्ञातोऽपि गुणवानपि यदीदृशः पतति, तर्हि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति / तथा आचार्य लोकेन पूज्यमानं दृष्ट्वा मरुके ब्राह्मणस्य मारणबुद्ध्या प्रतिचरणं भवति। ततः संज्ञाभूमिं गतं विजने प्रदेशे मारयेत्, तथा खरमुखीं नपुंसकी दासी वा प्रापयित्वोमुहं कुर्यात्, अनाभोगेन वा वनगहने प्रविष्टे तिर्यगादौ च गर्दभ्यादौ कुलटादौ च प्रविष्टायामात्मपरोभयसमुत्था दोषाः / एष गाथासंक्षेपार्थः। ___ संप्रति "वाणिए य मिच्छत्तं'' इत्येतद् विभावयिषुराह - सुयवंतं पिपरिवारवं च वणियंतरभणुट्टाणे। दुवाण निग्गमम्मिय, हाणीय परमुहावण्णो / संज्ञाभूमिं व्रजति, ततः प्रत्यागच्छति वा तस्मिन्नाचार्ये, श्रुतवान्, एषः, परिवारवां चेति मन्यमाना अन्तरा निजनिजापणेषु स्थिता वणिजोऽभ्युत्थानं कृतवन्तः तेषां चोत्थानैः लोकस्य च भूयान् बहुमान आसीत्। कदाचिदाचार्यो द्वौ वारौ संज्ञाभूमिव्रजेत्, ततो द्विस्थाने निर्गमने चतुरो वारान् गच्छति प्रत्यागच्छति चोत्थातव्यं, ततस्ते आलस्यं मन्यमाना अभ्युत्थानस्य हानि कुर्वन्ति,ते च हानिमभ्युत्थानस्य चिकीर्षवोऽभ्युत्थातव्यं भविष्यतीति कृत्वा तमाचार्यं दृष्ट्वा परमुखा भवन्ति, अन्यतो मुखं कुर्वन्तीतिभावः। अथवा अवर्णः स्यात्,तथाहिद्वौ वारौ संज्ञाभूमिं व्रजन्तमाचार्यं दृष्ट्वा ते वदन्ति-नूनमेष आचार्यों द्वौ त्रीन् वारान् समुद्दिशति,तेन द्वौ वारौ संज्ञाभूमिं याति। गुणवं तु जओ वणिया, पूयंतण्णे वि सम्मुहा तम्मि। पडि यं ति अणुछणे, दुविह नियत्ती अभिमुहाणं / / वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वा के चिदन्ये चिन्तयन्तिगुणवानाचार्यो, यतो वणिजः पूजयन्ति, एवं चिन्तयित्वा तेऽप्यन्ये तस्मिन्नाचार्ये सन्मुखा भवन्ति, वारद्वयसंज्ञाभूमिगमनेवणिजामनुत्थाने ते चिन्तयन्ति- नूनमेष आचार्यः पतितः, कथमन्यथा वणिजः पूर्वमभ्युत्थानं कृतवन्तो, नेदानीम् / तथा च सति तेषामभिमुखानां द्विविधा निवृत्तिः, तथा ये श्रावकत्वं ग्रहीतुकामा ये च तस्य समीपे प्रव्रजितुकामास्ते चिन्तयन्ति- यद्येषोऽपि प्रधानो ज्ञाता कुशीलत्वं प्रतिपद्यते, तर्हिनूनं सर्व जिनवचनमसारमिति मन्यमानाः श्रावकत्वाद् व्रतग्रहणाद् वा प्रतिनिवर्तन्ते, मिथ्यात्वं गच्छन्ति / संप्रति "पडियरणमणाभोगे" इत्यादि व्याख्यानयन्नाहआउट्टो त्ति व लोगे, पडियरिओ छन्नमारए मरुगो / खरियमुहसंगहं वा, लोभेउ तिरिक्खसंगहणं / / गुणावानाचार्य इति कृत्वा सर्वो लोक आचार्यस्याऽऽवृतोऽभवत् प्रणतोऽभूत् धिग्जातीयानां केषांचित् पापीयसां तथापूजामाचार्यस्य दृष्ट्वा महामत्सरो भवेत्, मात्सर्येण संज्ञाभूमिगतमाचार्य प्रतिवर्य छन्ने प्रदेशे मरुको ब्राह्मणः कोऽपि जीविताद् व्यपरोप्य गर्तादिषु प्रच्छन्ने प्रदेशे स्थगयेत् / तथा खरिकामुखी दासी नपुंसकं वा प्रलोभ्य तत्र प्रेष्य संग्रहं कुर्यात्, यथा- मैथुनमेष सेवमानो गृहीतस्तत उड्डहः स्यात्, तथा अनाभोगेनाचार्योवना-दिगुपिलमवकाश संज्ञाव्युत्सर्जनाय प्रविष्टः स्यात्, तत्र च (तिरिक्खत्ति) तिर्यग्योनिका गर्दभ्यादिका पूर्वगता पश्चाद्वा प्रविष्टा भवेत्, तां च केचित् प्रत्यनीका दृष्ट्वा उड्डाहं कुर्युः / मूलगाथायां यदुक्तं- (तिरिक्खादीति) तत्राऽऽदिशब्दव्याख्यानार्थमाह - आदिग्गहणा उग्गामिगाव तह अन्नतिथिगावावि। अहवा वि अण्णदोसा, हवंतिमे वादिमादीय॥ आदिग्रहणाद् उद्यामिका कुलटा, तथा अन्यतीर्थिका वा परिगृह्यते, सा तस्मिन् गहने पूर्वं गता, पश्चाद्वा प्रविष्टाऽभवत् / तत्र चाऽऽत्मपरोभयसमुत्था दोषाः संग्रहणादयश्च प्रागुक्ताः / अथवा इमे वक्ष्यमाणा अन्ये वाद्यादयो दोषा भवन्ति। तानेव संजिघृक्षुरिगाथामाह - वादीदंडियमादी, सुत्तत्थाणं च गच्छे परिहाणी। आवस्सगदिटुंतो, कुमार अकरंतकरते य / / वादिदण्डिकादयो वादिदण्डिकादिविषया बहवो दोषाः। तथा सूत्रार्थाना गच्छस्य परिहाणिः / अथवा सूत्रार्थानां परिहाणिर्गच्छे च ज्ञानादीनां परिहाणिः। तथा आवश्यक- मुच्चारावश्यकं कुर्वन् अकुर्वंश्च कुमारो दृष्टान्तः / एष द्वार-गाथासंक्षेपाऽर्थः / सांप्रतमेनामेव विवरीषुः प्रथमतो वादि-द्वारमाहसन्नागतो ति पिढे, भयातिसारो त्ति चेति परवादी। मा होही रिसिवज्झा, वचामि अलं विवाएण।। कोऽपि परप्रवादी बहुश्रुतमाचार्य लोकपूजितं श्रुत्वा तेन समं वादं करिष्यामीत्यागतो भवेत्, आचार्यश्च संज्ञाभूमि तदा गतस्तेन चाऽऽगतेन वसतौ पृष्ट क्व आचार्यः साधुभिः कथितमाचार्याः संज्ञाभूमिं गताः। एवं श्रुत्वा स परप्रवादी ब्रूयात्- स मम भयेन पलायितो, यदि वा मम भयेनाऽतीसारो जातः / अथवा- मा भवत्वेषां हत्येति व्रजामि, अलं पर्याप्तं विवादेन। अधुना "दण्डियमादीति'' व्याख्यानयतिचंदगवेज्झासरिसं, आगमणं एय इडिमंताणं / पव्वजसावगभद्दग-इन्चादिगुणाण परिहाणी॥ यथा- इन्द्रपुरे इन्द्रदत्तस्य राज्ञः सुतेन कथमपि पुत्तलिकाऽक्षिचन्द्रकस्य वेधः कृतः,तत्सदृशं"काकतालीयवत्"