________________ अइसेस 13- अभिधानराजेन्द्रः - भाग 1 अइसेस अप्पडिलेह दुपेहा, पुद्दुत्ता सत्ता भंगा उ|| आचार्यः कुलादिकार्येण निर्गतः प्रत्यागत उत्सर्गेण तावद् वसन् वसतेबहिरेव पादान् प्रस्फोटयति प्रत्युपेक्षते प्रमार्जयति चेत्यर्थः / यदि पुनर्निष्कारणं बहिः पादान्न स्फोटयति तदा बहिरप्रमार्जने गणिन आचार्यस्य प्रायश्चित्तं पञ्चकं शेषके साधौ बहिः पादान् अप्रमार्जयति लघुको मासः प्रायश्चित्तम्। तस्मात् बहिः पादान् प्रस्फोट्यान्तः प्रवेष्टव्यं तत्र प्रस्फोटनं विधिना कर्तव्यम् / स चायं विधिः प्रत्युपेक्षते ततः प्रमार्जयति। अविधिः पुनरयं न प्रत्युपेक्षतेन प्रमार्जयति १,न प्रत्युपेक्षते प्रमार्जयति 2, प्रत्युपेक्षते न प्रमार्जयति 3, प्रत्युपेक्षते प्रमार्जयति च 4 / अत्राऽऽद्येषु त्रिषु भङ्गेषु प्रत्येकं प्रायश्चित्तं मासिकं,चतुर्थे भने भङ्गाः चत्वारः, तद्यथा- दुष्प्रत्युपेक्षते दुष्प्रमार्जयति 1, दुष्प्रत्युपेक्षते सुप्रमार्जयति 2, सुप्रत्युपेक्षते दुष्प्रमार्जयति 3, सुप्रत्युपेक्षते सुप्रमार्जयति 4 / अत्र चतुर्थो भङ्गः शुद्धः,शेषेषु तु त्रिषु भङ्गेषु प्रत्येकं प्रायश्चित्तं पञ्चरात्रिन्दिवम्। एतदेवाह-अप्रत्युपेक्षणे उपलक्षणमेतत् अप्रमार्जने च / तथा दुष्प्रेक्षायामत्राऽप्युपलक्षणं ज्ञेयमिति दुष्प्रमार्जनतायां च पूर्वोक्ताः कल्पाऽध्ययनोक्ताः सप्त भङ्गाः। तत्र चोक्तः प्रायश्चित्तविधिः - बहि अंतो विवज्जासो, पणगं सागारिय असंतम्मि। सागारियम्मि उ चले, अत्थंति मुहुत्तगं थेरा॥ यदि सागारिके असति अविद्यमाने बहिरन्तर्विपर्यासो भवति बहिरनास्फोट्यान्तः प्रस्फोटयतीत्यर्थः,तदा गणिनः प्रायश्चित्तं पञ्चकम्। अथ सागारिको बहिस्तिष्ठति, सोऽपि च चलश्चलो नाम मुहूर्तमात्रेण गन्ता तस्मिन् सागारिके चले तिष्ठति मुहुर्तक- मल्पार्थे कप्रत्ययोऽल्पं मुहूर्त किमुक्तं भवति ? सप्ततालातिमात्रं सप्तपदातिक्रमणमात्रं वा कालं स्थविरास्तिष्ठन्ति। थिरविक्खत्ते सागा-रिय अणुवउत्ते पमजिउं पविसे। निविक्खित्तुवउत्ते, अंतो अपमज्जणा ताहे॥ स्थिरो नाम यत्राऽवस्थायां ध्रुवकर्मिको व्याक्षिप्तः कर्मणि कर्त्तव्ये व्याकुलस्तद्विपरीतोऽव्याक्षिप्तः / उपयुक्त आचार्यान् दृष्ट्वा निरीक्षमाणस्तद्विपरीतोऽनुपयुक्तः / तत्र स्थिरे व्याक्षिप्ते- ऽनुपयुक्ते 'सागारिके विद्यमाने' बहिः पादान् प्रमृज्य प्रविशेत, स्थिरे नियाक्षिप्ते उपयुक्ते बहिः सागारिके सति वसतेरन्तः प्रमार्जना पादानाम् / अथाचार्यस्य पादाः किं स्वयमेवाचार्येण प्रस्फोटयितव्याः उताऽन्येन साधुना ? तत आह - आभिग्गहियस्स असति, तस्सेव रओहरेण अण्णयरे / पाउंछणुण्णियणव, युस्संति य अणण्णभुत्तेणं / / केनाऽपि साधुना अभिग्रहो गृहीतो वर्तते, यथा- मया आचार्यस्य बहिर्निर्गतस्य प्रत्यागतस्य पादाः प्रस्फोटयितव्या इति, स यद्यस्ति तर्हि तेन प्रमार्जनायोपस्थातव्यं, तत्र चाऽऽचार्यस्या-त्मीयमन्यदौर्णिकं पादप्रोज्छनकमन्येन साधुना पादप्रमार्जनेना-ऽपरिभुक्तं तेनाचार्यस्य पादान प्रस्फोटयति / अथाऽभिग्रहिको न विद्यते तत आभिग्रहिकस्याऽसत्यभावे अन्यतरेण तस्यैवा-ऽऽचार्यस्य रजोहरणेन और्णिकेन वा पादप्रोञ्छनकेनाऽनन्य- भुक्तेन पादान् प्रोञ्छयति / यदि पुनरव्यापृतोऽपि निष्कारण-माचार्यस्य पादान्न प्रमार्जयति, तदा मासलघु / अथात्मीयेन रजोहरणेन पादप्रोञ्छनके न वाऽन्यपादप्रमार्जनतः परिभुक्तेन प्रमार्जयति, तदापि मासलघु / यदि बहिर्वसतेः सागारिकः तिष्ठतीत्याचार्यस्य पादा न प्रस्फोटिताः, तर्हि वसतेरन्तः प्रविष्टस्य प्रस्फोटनीयास्तत्राऽयं विधिः विपुलाए अपरिमोगे, अप्पणओवासए वविट्ठस्स। एमेव मिक्खुयस्स वि, नवरिं बाहिं चिरयरं तु // यदि विपुला वसतिस्तर्हि तस्यां विपुलायां वसतावपरिभोगे अवकाशे आचार्येण स्थित्वा पादाः प्रस्फोटयितव्याः। अथ संकटा वसतिस्तर्हि य आचार्यस्य आत्मीयो वण्ट काद्यवकाशः, तत्र ऐपिथिकी प्रतिक्रम्योपविष्टस्य पादाः प्रमार्जनीयास्ते च कुशलेन साधुना तथा प्रमार्जनीया यथा अन्ये साधवो धूल्या न वियन्ते / यथाआचार्य स्योक्तमेवं भिक्षोरपि दृष्टव्य, नवरं यदि बहिर्व सते: सागारिकस्तिष्ठति,ततश्विरतरमतिकालं प्रतीक्षेत यावचलसागारिको व्यतिक्रामति / यदि पुन-भिक्षुर्वसते बहिः सागारिकाभावेऽपि पादावप्रस्फोट्य वसतेरन्तः प्रविशति, तदा तस्य प्रायश्चित्तं मासलघु। निगिज्झियं पमनाहि, अभणं तस्से व मासियं गुरुणो / पायरयक्खमगादी, चोयग कजागते दोसा।। यदि बहिः सागारिक इति कृत्वा वसतेरन्तः पादाः / प्रस्फोटयितव्यास्ततः संकटायां वसतौ पादान प्रमार्जयितुमुपस्थितं साधु-माचार्यो ब्रूते आर्य ! निगृह्य पादान् प्रमार्जय। किमुक्तं भवति? तथा यतनया पादान प्रमार्जय, यथा पादधूल्या न कोऽपि साधु-म्रियते / अथैवं न ब्रूते, तत एवमभणतो गुरोः प्रायश्चित्तं मासलघु / तथा पादरजसा क्षपकादयः खरण्टन्ते, तथा सति वक्ष्यमाणाः दोषाः / अत्र चोदक आह-आचार्यः कस्माद् बहिर्गच्छति ? सूरिराह- कार्यागते कार्येषु समापतितेष्वगते दोषास्तस्माद् गच्छति / अधुना "पायरयक्खमगादी' इत्येतत् व्याख्यानयति - तवसोसितो व खमगो,इडिमवुड्डो व कोवितो वा दि। मा भंडणखमगादी, इति सुत्त निगिज्झिए जयणा / / तपसा शोषितस्तपःशोषितः क्षपकस्तस्य त्वल्पेऽप्यपराधे कोयो जायते, ततः स आचार्यपादप्रमार्जनधूल्या विकीर्णः कुपितो भवेत, कुपितश्च सन् भण्डनं कृत्वा अन्यत्र गच्छेत् प्रविशेत् प्रतिपद्येत वा। अथवा कोऽपि ऋद्धिमान् वृद्धो राजादिः प्रव्रजितः स पादधूल्याऽवकीर्णो रुष्टः सन् भण्डनादि कुर्यात् / कोपितो नाम शैक्षकः कोऽपि रुष्टः प्रतिपद्येत, तस्मात् क्षपकादिर्मा भण्डनं कार्षीदिति सूत्रे निगिज्झिय निगिज्झयेत्युक्तमस्थाऽप्ययमर्थो यतनयेति। संप्रति "चोयग कज्जागते दोसा'' इति व्याख्यानयतिथाणे कुप्पति खमगो, किं चेव गुरुस्स निग्गमो भणितो। भणइ कुलगणकज्जे, चेइयनमणं च पव्वेसु // स्थाने कुप्यति क्षपकः, तथाहि- स पादधूल्या अवकीर्यते, ततो मा कोपं कार्षीत् / किं चैवं गुरोराचार्यस्य निर्गमः केन कारणेन भणितस्तत्कारणमेव नास्ति, येन कारणेन वहिराचार्यस्य निर्गमनम् ? आचार्य आह- भण्यते,अत्रोत्तरं दीयते- कुलकार्ये उपलक्षणमेतत् सङ्ककार्ये च बहुविधे समापतिते, तथा पर्वसु पाक्षिकादिषु चैत्याना सर्वेषामपि नमनमवश्यं कर्तव्यमिति हेतोश्चाऽऽचार्यस्य वसते बहिर्निर्गमनम्। पुनश्चोदक आह - जति एवं निग्गमणे, भणाति तो बाहिं चिट्ठिए पुंछे / वुचति बहि अत्यंते, चोयग गुरुणो इमे दोसा / / चोदको भणति- यदिएवं कुलादिकार्यनिमित्तमाचार्यस्य निर्गमन, ततो निर्गमने सति प्रत्यागतो यदि वसतेबहिः सागारिकः,