________________ अइयार 9- अभिधानराजेन्द्रः - भाग 1 अइयार ma अन्यथा परिकल्पनमर्थाऽतिचारः / यथा आचारसूत्रे- आवन्ती० अध्ययनमध्ये आवन्तीके "आवंती लोगसि विप्परामुसंतीति'' यावत् केचित् लोकेऽस्मिन् पाण्डिलोके विपरामृशन्तीति प्रस्तुतेऽर्थ अन्योऽर्थः परिकल्प्यते, "आवंति होइ देसो, तत्थ उ अरहट्टकूवजा केया। घट्टी मासा पडिहियाहिं, हेउत्तं लोगो विपरामुसइ / / 1 / / 7, यत्र च सूत्राऽर्थों द्वावपि विनश्येते, स तदुभयाऽतिचारो यथा- धम्मो मंगलमुक्किट्ठो, अहिंसा गिरिमत्थए / देवा वितं नमसंति, जस्स धम्मे सया मई।।१।। अहागडेसुरंधति, कट्टेसुरहकारओ। रत्तो भत्तसि णो जत्थ,गद्दभो जत्थ दीसिइ / / 2 / / 8 1 अयं च महीयानतिचारो, यतः सूत्रार्थोभयनाशे मोक्षाभावस्तदभावे दीक्षावैयर्थ्यमिति / एष चाऽष्ट विधोऽपि / ज्ञानाचारातिचारो द्विधा- ओघतो, विभागतश्च / तत्र विभागतः - उदेशकाऽध्ययन-श्रुत-स्कन्धाऽङ्गेषु विषये प्रमादिनः प्रमादपरस्य कालातिक्रमणादिष्वष्टसु ज्ञानाचाराऽति- चारेषु जातेषु क्रमशः क्रमेण तपोनिर्विकृतिकं पुरिमार्द्धक भक्त आचाम्लं च / अनागाढे दशवै कालिकादिके श्रुते उद्देशकाऽतिचारे अकालपाठादिके निर्विकृतिकम् / अध्ययनाऽतिचारे पुरिमार्द्धम्, श्रुतस्कन्धाऽतिचारे एकभक्तमङ्गाऽतिचारे आचाम्लमित्यर्थः / आगाढे तूत्तराध्ययनभगवत्यादिके श्रुते, एतेष्वेवाऽतिचारस्थानेषु पुरिमार्दादिक्षपणान्तमेव तपो भवति / एतद्विभागतः प्रायश्चित्त-मुक्तम् / जीत०। स्था०। वससमारम्भप्रत्याख्याता पृथिवी- समारम्भेवर्तमानोव्रतंनाऽतिचरति - समणोवासगस्सणं भंते ! पुव्वामेव तसपाणसमारंभे पच्चक्खाए भवइ पुढवीसमारंभे अपञ्चक्खाए भवइ, से य पुढविं खणमाणे अण्णयरं तसपाणं विहिंसेजा से णं भंते ! तं वयं अइचरइ ? णो इणढे समढे नो खलु से तस्स अइवायाए आउट्टइ / समणोवासयस्स णं भंते ! पुवामेव वणप्फइ- समारंभे पञ्चक्खाए से य पुढविं खणमाणे अण्णयरस्स रुक्खस्स मूलं छिंदेज्जा से णं भंते ! वयं अतिचरति ? णो इणढे समढे नो खलु से तस्स अइवायाए आउट्टइ। त्रसवधः / (नो खलु से तस्स अइवायाए आउट्टइत्ति) न खलु असौ तस्य त्रसप्राणस्याऽतिपाताय वधायाऽऽवर्तते, प्रवर्तते इति, न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ / न चैवं तस्य संपन्न इति, नाऽसावतिचरतिव्रतम्। भ०७ श०१ उ०। (दैवसिका अतिचाराः काउस्सग्गशब्दे) (मूलगुणातिचारा उत्तरगुणा-तिचाराश्च मूलाऽतिचारे प्रायश्चित्तमित्यवतरणमाश्रित्य पच्छित्त- शब्दे वक्ष्यन्ते) सर्वेऽप्यतीचाराः संज्वलनकषायोदये भवन्तीत्याहसव्वे वि य अइयारा, संजलणाणं तु उदयओ होंति।। मूलच्छेज्जं पुण होइ, बारसण्हं कसायाणं / / 250 / / सर्वेऽप्यालोचनाप्रतिक्रमणोभयादिच्छे दपर्यन्तं प्रायश्चित्तशोध्याः / अपिशब्दात् कियन्तोऽपि च अतिचरणानि अतिचाराः चारित्रविराधनाविशेषाः संज्वलनानामेवोदयतो भवन्ति ? द्वादशानां पुनः कषायाणमुदयतो मूलच्छेद्यं भवति / मूलेना-ऽष्टमस्थानवर्तिना प्रायश्चित्तेन छिद्यतेऽपनीयते यद् दोषजातं, तत् मूलच्छे द्यम् / अशेषचारित्रोच्छेदकारीत्यर्थः, तदेवंभूतं दोष- जातं द्वादशानामनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरण-लक्षणानां कषायाणामुदये संजायते। अथवा इदं मूलच्छेद्यं दोषजातं यथासंभवतो योज्यते, तद्यथा- प्रत्याख्यानावरण-कषायचतुष्कोदये सर्वविरतिरूपस्य चारित्रस्य मूलच्छे द्यं सर्वनाशरूपं भवति / अप्रत्याख्यानकषायचतुष्कोदये तु देशविरतिचारित्रस्य, अनन्तानुबन्धिकषायचतुष्कोदये पुनः सम्यक्त्वस्योते नियुक्तिगाथार्थः // 25 // भाष्यम्अइआरा छेदंता, सव्वे संजलणहेयवो होति। सेसकसाओदयओ मूलच्छेज्जं वयारुहणं // 251 / / सप्तमस्थानवर्ती प्रायश्चित्तविशेषच्छेदः, ततश्चालोचनादिना छेदाऽन्तेन सप्तविधप्रायश्चित्तेनाऽन्तो येषां ते एकस्याऽन्तशब्दस्य लोपाच्छेदान्ताः। सर्वे ऽप्यतिचाराः संज्वलनकषायोदयजन्या भवन्ति / शेषकषायाणां द्वादशानामुदये मूलच्छेद्य रामस्त-चारित्रोच्छेदकारकंदोषजातं भवति / तद्विशुद्धये च प्रायश्चित्तं न, पुनरपि व्रताऽऽरोपणमिति। अथवा यथासंभवं मूलच्छेद्यं योज्यते, इत्येतदेवाऽऽहअहवा संजममूल-च्छेज्जं तइयकलुसोदये निययं / सम्मत्ताई मूल-च्छेज्ज पुण बारसण्हं पि॥२५२।। तृतीयानां प्रत्याख्यानावरणकषायाणामुदये संयमस्य सर्वविरतिरूपस्य मूलच्छेद्यं नियत निश्चितं भवति सम्यक्त्वा-दिमूलच्छेद्या तुद्वादशानामप्युदये संपद्यत इति। अथ प्रेर्यमाशङ्कय परिहरन्नाह - मूलच्छिज्जे सिद्धे, पुव्वं मूलगुणधाइगहणेणं। इह कीस पुणो गहणं, अइआरविसेसणत्थं ति // 253 // पगयमहक्खायं ति य, अइआरे तम्मि चेव मा जोए। तो मूलच्छिज्जमिणं, सेसचरित्ते निओएइ॥२५४|| आह- नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां "मूलगुणाणं लभ, न लहइ मूलगुणघायिणो उदये" इत्येतस्मिन् पूर्वार्द्ध मूलगुण-घातिग्रहणेन द्वादशकषायाणामुदये मूलच्छे द्यं सिद्धमेवेति कि मिह पुनस्तद्ग्रहणमत्रोत्तरमाह - अतिचारविशेषणार्थमिति / अतिचाराणां विशेषव्यवस्थापनार्थमित्यर्थः / इदमेव व्यक्ती-कुर्वन्नाह (पगयमित्यादि) इदमुक्तं भवति- संजलणाणं उदए न लहइ चरणं अहक्खायं,इत्यनन्तरनियुक्तिगाथोत्तरार्धादिह यथाख्यातचारित्रं प्रकृतमनुवर्तते। ततश्च "सव्वे विय अइआरा संजलणाणं उदयओहोति' इत्येतानतिचारान् अनन्तरानुवर्तमाने यथाख्यातचारित्र एव शिष्यो योजयेत्,एतद् मा भूत्, ततस्तेनेह पुनरपि मूलच्छेद्यमेतद्यथाख्यातवर्जित शेषचारित्रे सामायिकादिके नियोजयति / अस्या हि मूलगाथायां मूलच्छे द्यग्रहणात् पुनःशब्दविशेषणात् चाऽयमर्थः संपद्यतेसंज्वलनानामुदये शेषचारित्रस्य सर्वेऽप्यतिचारा भवन्ति, द्वादशकषायाणामुदये पुनर्मूलच्छेद्यं भवति / यस्यैवाऽस्यां गाथायां मूलच्छेद्यमुक्तं, तस्यैवाऽतिचारा अपि न तु यथा- ख्यातचारित्रस्य कषायोदयरहितत्वेन तस्य निरतिचारत्वादिति गाथाचतुष्टयार्थः। विशे० 300 पत्र। आ०म० आ०चूला दर्शक सातिचारस्य चरणस्य विपाककटुकताविचारः - सम्म विआरियव्वं, अत्थपदभावणापहाणेणं। विसए अठाविअव्वं बहुसुअगुरुसयासाओ।।६५।। सम्यक् सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदभावनाप्रधानेन