________________ अइमोह 8- अभिधानराजेन्द्रः - भाग 1 अइयार अइमोह-त्रि०(अतिमोह)अतीव मोहो यस्मिन्, तदतिमोहम् / अतिकामाऽऽसक्तौ, अतिशयितमोहयुते, ज्ञा० 1 अ०। अयंचिय- अव्य०(अत्यध्य)अतिक्रम्येत्यर्थे, स्था०५ ठा० / अइयच-अव्य०(अतिगत्य)अतिक्रम्येत्यर्थे। आचा०१ श्रु०६अ। अइयण-न०(अत्यदन)अतिभक्षणे, "अणुकंपा साणाइयण- दुगुंछा"। व्य०२ उ०। अइया-स्त्री०(अजिका)छगलिकायाम्, बृ० १उ० अइया(य)त-त्रि०(अतियात)गते, "अइयाओणराहिवो'। उत्त०२० अ० अइयायरक्ख-त्रि०(अत्यात्मरक्ष)अतीवाऽऽत्मनः परैः पाप-कर्मभिः रक्षा यस्यासावत्यात्मरक्षः। अतीवाऽऽत्मानं पापै रक्षति, अइयायरक्खे दाहिणगामिए नेरइए। सूत्र०२ श्रु०२ अ०॥ अ(ई)(ति)(ती)इयार-पुं० [अति(ती)चार] अतिचरणमतिचारः।लड्नने, सूत्र०२ श्रु०७अतृतीये अपराधे,षो०११ विव०। आ०चू० अतिक्रमे, अतिक्रम्य गमने, आव० 4 अ01 ग्रहणतो व्रतस्याऽतिक्रमणे, व्य०१ उ०॥ चारित्रस्खलन- विशेषे, आ०म० द्वि०) आ०चू०देशभङ्गहेतौ आत्मनोऽशुभे परिणामविशेषे, धर्म०२ अधिo देशभङ्गेऽतिचारता यथा ननु हिंसैव श्रावकेण प्रत्याख्याता ततो वधादिकरणेऽपि न दोषो हिंसाविरतेरखण्डितत्वात्। अथ वधादयोऽपि प्रत्याख्याताः,तदा तत्करणे व्रतभङ्ग एव विरतिखण्डनात् / किञ्च वधादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत प्रतिव्रतमतिचाराणामाधिक्यादिति एवं च न वधादीनामति-चारतेति ? उच्यते- सत्यं हि सैव प्रत्याख्याताः, न वधादयः केवलं तत्प्रत्याख्यानेऽर्थतः, तेऽपि प्रत्याख्याता दृष्टव्याः, हिंसोपायत्वात् / तेषामेव चेत्तर्हि वधादिकरणे व्रतभङ्ग एव, नाऽतिचारो, नियमस्याऽपालनात् मैवं, यतो द्विविधं व्रतमन्तवृत्त्या बहिर्वृत्या च। तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशान्निरपेक्षतया वधादौ प्रवर्तते,न च हिंसा भवति, तदा निर्दयतया विरत्यनपेक्षप्रवृत्तत्वेनाऽन्तर्वृत्त्या तस्य भङ्गः, हिंसाया अभावाच बहिर्वृत्त्या पालनमिति देशस्यैव भञ्जनाद् देशस्यैव पालनादतिचारव्यपदेशः प्रवर्तते। तदुक्तम्- न मारयामीति कृतव्रतस्य, विनैव मृत्यु क इहाऽतिचारः ? निगद्यते- यः कुपितो वधादीन् करोति, असौ स्यान्नियमाऽनपेक्षः / मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद् दयाहीनतया तु भनः / देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति / यचोक्तं - व्रतेयत्ता विशीर्येत इति, तदप्ययुक्तं, विशुद्धाऽहिंसासद्भावे हि वधादीनामभाव एव, तत् स्थितमेतद्वधादयोऽतिचारा एवेति / यद्वा अनाभोगसहसाकारादिनाऽतिक्रमादिना वा सर्वत्राऽतिचारता ज्ञेया। ध०२ अधि०। (आधा-काश्रित्याऽतिचारता अइक्कम्म शब्दे दर्शिता) अयं चाऽतिचारः संक्षेपत एकविधः, संक्षेपविस्तरतस्तु द्विविधस्त्रिविधो यावदसंख्येयविधः, संक्षेपविस्तरतः पुनर्द्विविधः, त्रिविधं प्रति विस्तरः, इत्येवमन्यत्राऽपि योज्यं विस्तरतः त्वनन्त-विधः। आव०४ अ० स्था०1धा आतुला एतेषु अतिक्रमादिषु उत्तरोतरं दोषाऽधिक्यं प्रायश्चित्ताधिक्यात आधाकर्मणा निमन्त्रितः / सन् यः प्रतिशृणोति, सोऽतिक्रमे वर्तते, तद्ग्रहणनिमित्तं पदभेदं कुर्वन् व्यतिक्र मे, गृह्णानोऽतीचारे, भुञ्जानोऽनाचारे / एवमन्यदपि परिहारस्थानमधिकृत्याऽतिक्रमादयो ज्ञापनीयाः एतेषु च प्रायश्चित्तमिदम् / अतिक्रमे मासगुरु व्यतिक्रमेऽपि मासगुरु काललघु अतीचारे मासगुरु द्वाभ्यां विशेषितं तद्यथा तपोगुरु कालगुरु च। अनाचारे चतुर्गुरु यस्मात् गुरुकाऽतीचारः चशब्दोऽनुक्तसमुच्चयार्थः। सचैतत् समुचिनोति अतिक्रमात् व्यतिक्रमो गुरुकः, तस्मादपि गुरुकोऽतीचार इति। ततोऽप्यती-चारात गुरुतरकोऽनाचारः / तत इत्थं प्रायश्चित्तविशेषः - तत्थ भवे न उ सुत्ते, अतिक्कमादी उ वणिया केई। चोयग ! सुत्तेऽणुत्ते, अतिक्कमादी उजोएज्जा। तत्र एवमुक्तेन भवेत् मतिश्वोदकस्य, यथा- न तु, नैव सूत्रे निशीथाऽध्ययनलक्षणे केचिदतिक्रमादय उपवर्णिताः सन्ति, ततः कथं चत्वारोऽतिक्रमादयस्तत्रैवाऽध्ययने सिद्धा इति / सूरिराह- चोदक ! सर्वोऽप्येष प्रायश्चित्तगणोऽतिक्रमादिषु भवति, ततः साक्षादनुक्तानपि सूत्रे सूत्रितान् अतिक्रमादीन् योजयेत्, अर्थतः सूचितत्वात्। व्य०१ उ०। अत्रैव प्रायश्चित्तविधिमाह - तिन्निय गुरुगामासा,विसेसिया तिण्णि चउगुरू अंते। एए चेव य लहुया,विसोहिकोडीएपच्छित्ता।। त्रयाणामतिक्रमव्यतिक्रमाऽतीचाराणां त्रयो गुरुका मासाः। कथंभूताः ? इत्याह- विशेषितास्तपःकालविशेषिताः। किमुक्तं भवति ? अतिक्रमे मासगुरुर्व्यतिक्रमेऽपि मासगुरुरतीचारेऽपि मासगुरुरेतेच त्रयोऽपि यथोत्तरं तपःकालविशेषिताः। तथा अन्ते अनाचारलक्षणे दोषे चतुर्गुरु चतुर्मासगुरु प्रायश्चित्तम् / एते च मासगुर्वादयः प्रायश्चित्ता अतिक्रमादिष्वविशोधिकोठ्यां द्रष्टव्याः, विशोधिकोठ्यां त्वेत एव मासादयो लघुकाः प्रायश्चित्तानि / तद्यथा- अतिक्रमे मासलघु, व्यतिक्रमेऽपि मासलघु, अतीचारेऽपि मासलघु, नवरमेते यथोत्तरं तपःकालविशेषिताः / व्य०१ उ०॥ ज्ञानातिचारादयः, तेषु प्रायश्चित्तम् - उद्देसज्झयणसुय-खंधंगेसु कमसो पमाइस्स। कालाइक्कमणाइसु, नाणावरणाइयारेसु // 22 // निव्वीए पुरिमलेगभत्तमायंबिलं च णागाढे। पुरिमाई खमणं तं, आगाढे एवमत्थे वि॥२३॥ युगलमिह तपोऽहप्रायश्चित्ते ज्ञानदर्शनचारित्रतपोवीर्याचारपञ्चकशताऽतीचारचक्रमालोच्यम् / तत्राऽऽद्यो ज्ञानाचारस्या-ऽतिचारे, ज्ञानाचाराऽतिचारः सोऽष्टविधः / तद्यथा- अकाले स्वाध्यायकरणं कालातिचारः 1, श्रुतमधिजिघांसोर्जाति-मदाऽवलेपेन गुरुष्वविनयो वन्दनादिरूपाचारः, तस्य प्रयोजनं हीनं वा विनयाऽतिचारः 2, श्रुते गुराँवा बहुमानो हार्दप्रति-बन्धविशेषस्तस्याऽकरणं बहुमानातिचारः 3, उपधानम् आचामाम्लादितपसा योगविधानं, तस्याऽकरणमुपधानाऽतिचारः 4, यत्पार्थे श्रुतमधीतं, तं निह्नतेऽपलपति, अन्यं वा युगप्रधानमात्मनोऽध्यापक इति निर्दिशति, स्वयं वाऽधीत-मित्याचष्टे। एवं निह्नवनाऽभिधानाऽतिचारः 5, व्यज्यते अर्थो -ऽनेनेति व्यञ्जनमागमसूत्रं, तन्मात्राऽक्षरबिन्दुभिरूनमति-रिक्तं वा करोति, संस्कृतं वा विधत्ते,पर्यायैर्वा विदधाति, यथा- धम्मो मंगलमुक्किदृ० इत्यादिस्थाने 'पुन्नं कल्लाणमुक्कोसं, दया संवरनिजरेति' व्यञ्जनातिचारः ६,आगमपदार्थस्य