________________ अइधुत्त 4 - अभिधानराजेन्द्रः - भाग 1 अइपरिणाम यस्य सोऽतिधूर्तः / बहुलकर्मणि, सूत्र०२ श्रु०२ अ० 1 उ०। अइपंडिय-त्रि०(अतिपण्डित)अतीव दुर्विदग्धे, बृ०१ उ०। अइपंडुकंबलसिला-स्त्री०(अतिपाण्डुकम्बलशिला) मन्दरपर्वतस्य दक्षिणदिग्गतायामभिषेकशिलायाम्, स्था० 2 ठा०1 दो अइपंडुकंबलसिलाओ। स्था० 4 ठा०। पाण्डुकम्बल-शिलेत्यस्या नामान्तरमिति तत्रैव वर्णको वक्ष्यते। ज०२ वक्ष०ा अइपडागा-स्त्री०(अतिपताका) एकां पताकामतिक्रम्य या पताका साऽतिपताका / ज्ञा० 1 अ०। पताकोपरिवर्तिन्यां पताकायाम् / दशा०) औला अइपरिणाम-पुं०(अतिपरिणाम)अतिव्याप्त्या परिणामो यदुक्तार्थपरिणमनं यस्य सतथा। व्य०१ उ०नि०चूला अपवादैकमतौ, वृ०१ उ०। तल्लक्षणम् / अतिपरिणामकमाह - जो दव्वखेत्तकाल-भावकयं जं जहिं जया काले। तल्लेसुस्सुत्तमई, अइपरिणामं वियाणाहि।। द्रव्यक्षेत्रकालभावकृतं यद्वस्तु यस्मिन् विकृष्टाऽध्वादौ यदा काले आत्यन्तिकदुर्भिक्षादौ भणितम् (तल्लेसुत्ति)तस्मिन् द्रव्यादिकृते अपवादिकवस्तुनि लेश्या यस्य स तल्लेश्यः पश्यामि। तावदत्र किमपि निश्रापद ततस्तदेवाऽवलम्बयि- ष्यामीत्यपवादैकमतिरित्यर्थः / तथा सूत्रादपवादश्रुतात्, उत्-प्राबल्येन मतिरस्येत्युत्सूत्रमतिः। श्रुतोक्ताऽपवादाद् अभ्यधिकाऽपवादबुद्धिरिति भावः, तमेवंविधं साधुमति-परिणामकं विजानीहीति, बृ० 1 उ०। अथ प्रसङ्गादत्रैव परिणामका-ऽपरिणामाऽतिपरिणामानां सदृष्टान्तं स्वरूपं दर्श्यते - परिणमइ जहत्थेणं, मई उ परिणामगस्स कन्जेसु / बिइए न तु परिणमइ, अहिगमइ परिणामे तइओ॥ परिणामकस्य मतिः कार्येषु याथार्थ्येन यथार्थग्राहकतया परि-णमति। अतएवासौ परिणामक उच्यते। द्वितीये द्वितीयस्यापरिणाम-कस्य मतिर्न तु नैव परिणमते / अत एवासावपरिणामस्तृतीयः पुनरधिकां मतिमधिगच्छतीति परिणामकोऽभिधीयते। एतदेव स्पष्टयतिदोसु विपरिणमइ मइ-मुस्सग्गववायओ उ पढमस्स। बिइतस्स उ उस्सग्गे, अइअववाए अतइयस्स। प्रथमस्य परिणामकस्य मतिरुत्सर्गापवादयोरपि परिणमति / किमुक्तं भवति ? यः परिणामको भवति तस्योत्सर्गे प्राप्ते उत्सर्ग एव मतिः परिणमते / अपवादे प्राप्तेऽपवाद एव मतिः परिणमते / यत्रोत्सर्गो बलीयान् तत्रोत्सर्गसमाचरति। यत्रापवादोबलवान्तत्रापवाद गृह्णाति। द्वितीयस्यापरिणामकस्य पुनरुत्सर्ग एव मतिः परिणमते / न पुनरपवादे। तृतीयस्यतु अति अत्यर्थम्। अपवादे मतिः परिणमते। सच द्रव्यादिकारणे प्रतिसेवनामनुज्ञातां ज्ञात्वा न किंचित् परिहरति / कारणमन्तरेणाऽपि प्रतिसेवते। अथ यदुक्तमासीत् (अंबाई दिटुंतोत्ति)तदिदानीं भाव्यते / एतेषा परिणामकादीनां त्रयाणामपि जिज्ञासया के चिदाचार्याः स्वशिष्यानित्थमभिदध्यु:- आर्या ! आमरस्माकं प्रयोजनमस्ति, इत्युक्ते यः परिणामकः शिष्यः, स ब्रूयात् - चेयणमचेअणं विय, केदहछिन्न ओकित्तिया वा वि। ल द्धा पुणो व वोच्छं, विण्णाणत्थं च वुत्तो सि॥ भगवन् ! यैरामैः प्रयोजनं, तानि कि चेतनानि ? किं भाषितानि लवणादिभिर्वासितानि ? उताऽभावितानि (केद्दहत्ति)किं प्रमाणानि किं महन्ति किं वा लघूनि (छिन्नत्ति)किं पूर्वच्छिन्नानि किं वा इदानीं छित्त्वा आनीतानि / अथवा (छिन्नत्ति)किं छिन्नानि खण्डीकृतानि किं वा सकलानि (कित्तित्ति)कियन्ति वा गणनाया द्विव्यादिसंख्याकान्यानेकानि वा अपिशब्दात् किं बद्धा-ऽस्थिकानि अबद्धास्थिकानि या तरुणानि जरठानि वेत्यत्राऽपि प्रष्टव्यम् / इत्थं शिष्येणाऽभिहिते आचार्येण वक्तव्यं-सौम्य ! लब्धानि सन्त्यग्रेऽपि मम पुनः पुरा विस्मृतान्यासन, इदानीं स्मृतिपथमवतीर्णानीति / यद्वा पर्याप्त तावदिदानी प्रयोजने समापतिते पुनर्भवन्तं वक्ष्यामि, भणिष्यामि। अथवा- वत्स! किं ममाऽऽमैः कार्य? विमर्शाऽर्थ-किमयं विनीतो? न वा, परिणामको वा? न वेति विज्ञानार्थ-मुक्तोऽसीति। यः पुनरपरिणामकः, सब्रूयात् - किं ते पित्तपलावो, मा वयं एरिसाई जंपाहि। मा णं परे वि सोइ, कहं पिनेच्छाम एयस्स / / भो आचार्य ! किं ते पित्तप्लावः समजनि? यदेवमुन्मत्तवद् असंबद्धं प्रलपसि ? यद्येकवारं ममाऽग्रे जल्पितं, बहिर्जल्पितं नाम मा पुनर्द्वितीयं वारमीदृशानि सावद्यानि वचनानि जल्पेति। यतो "माणं'' इत्येतत्त्वदीयं वचनं परोऽप्यन्योऽपि श्रोष्यति / वयं पुनः कथमपि नेच्छाम एतस्याऽर्थस्याऽऽमाऽऽनयनलक्षणस्य किं पुनः कर्तव्यतामित्यपिशब्दार्थः / यः पुनरतिपरिणामकः,सएवमभिदध्यात् - काले सिं अइवत्तइ, अम्ह वि इच्छा न भाणिउंतरिमो। किं एचिरस्स वुत्तं अन्नाणि वि किं च आणेमि॥ क्षमाश्रमणा ! यदि युष्माकमानैः प्रयोजन, तत इदानीमप्या-नयामि, यतः (सिं इति)एषामामाणां कालोऽतिवर्तते, अतिक्रा-मति। अद्यतावत् तानि तरुणानि वर्तन्ते, अत ऊर्ध्वं जरठी-भविष्यन्तीत्यर्थः / यदा अस्माकमप्यामाणां ग्रहणे महती इच्छा, परं किं कुर्मो ? न वयं यौष्माकीणभयभीता भणितुं किमपि (तरिमोत्ति)शक्नुमः / अथवा यद्यामाण्यपि ग्रहीतुं कल्पन्ते, ततः किमियतश्विरात्कालादुक्तं? वञ्चिताः स्मो वयमियन्तं काल-मिति भावः / किं वा अन्यान्यपि मातुर्लिङ्गादीन्यानयामीति / अनयोरपरिणामकाऽतिपरिणामकयोरेवं जल्पतोराचार्येणेदमुत्तरं दातव्यम् - नाभिप्पायं गिण्हसि, असमत्ते चेव भाससी वयणे। मुत्तंबिललोणकए, भिन्ने अहवा वि दोच्चंगे। भो मुग्ध ! त्वं न मदीयमभिप्रायं गृह्णासि, किन्तूत्सुकतया मदीये वचने असमाप्त एवे दृशं समयविरुद्धं निष्ठुरं वचनं भाषसे / मया पुनरेतेनाऽभिप्रायेणाभिहितम्- (मुत्तंबिल इत्यादि)मुक्तं काञ्जिकं तदेवाऽत्यम्लं मुक्ताऽम्लं तेन लवणेन वा कृतानि भावितानि मुक्ताऽम्ललवणकृतानि भिन्नानि च / किमुक्तं भवति ? न मया भवतः पादिपरिणतान्यामाण्यानायितानि किं तु चतुर्थ-रसिकभावितानि वा लवणभावितानि वा द्रव्यतो भावतश्च भिन्नानि परिणतानीति भावः। अथवा (दोचंगत्ति) सामयिकी-संज्ञा ओदनादिमूलाऽपेक्षया भोजनस्य द्वितीयाङ्गानि राद्धशाक-रूपाणि तानि मया आनायिता-नीति प्रक्रमः। "अंबाई' इत्यत्रादिशब्दसूचितौ वृक्षबीजदृष्टा-न्ताविमौ / आचार्या भणन्ति- आर्या ! रुक्खे हिं वा पओअणं ति / अत्राऽपि परिणामकादिजल्पस्तथैवाऽवसातव्यः / नवरं, अपरिणामकातिपरिणामको प्रति सूरिणा प्रतिवक्तव्यम् 1 /