SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अइंदिय 2- अभिवानराजेन्द्रः - भाग 1 अइचरा ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः। कालेनैतावता प्राज्ञः, कृतः स्यात्तेषु निश्चयः॥४॥ यदि यावता कालेनाऽतीन्द्रिया इन्द्रियाऽगोचराः पदार्था धर्माऽस्तिकायादयः हेतुवादेन युक्तिप्रमाणसमूहेन ज्ञायेरन् एतावता कालेन परमात्मभाव श्रवणचिन्तननिदिध्यासनादिना स्वात्म-स्वरूपे उपयोगोऽनुभवः कृतः स्यात् तदा तेषु धर्मास्तिकायादिषु शुद्धात्मनि च निश्चयः कृतः स्यात् प्राज्ञैः इत्यनेन परद्रव्यचिन्तनकालमात्रेणाऽऽत्मस्वरूपचिन्तने स्वपरावबोधो भवति तेन सद्भिः स्वस्वभावभावने मतिः कार्या येन निष्प्रयासतःस्वपरा "जे एणं जाणइ से सव्वं जाणति" इति वचनात् बोधपरित्यागपरिणतिर्भवति // 4 // अष्ट०। ननु अतीन्द्रिया अर्थान सन्त्येवेति चेत्,न मड्डुक श्रमणोपासकेनाऽन्ययूथिकान् प्रतिवातघ्राणसहगतपुद्गलरूपादेरतीन्द्रियार्थस्यसत्त्वप्रसाधनात्।(मला मंडा शब्दे तद्रष्टव्यम्)अतीन्द्रियाऽर्थज्ञानं वेद-वाक्येभ्य एवेति जैमिनीयाः / साक्षादतीन्द्रियाऽर्थदर्शिनः, तन्मतेऽभावात्, यदुक्तम्अतीन्द्रियाणामर्थानां,साक्षाद्रष्टा न विद्यते। नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिश्चयः // 1 // जै०गान (सम्भव-त्यतीन्द्रियाऽर्थज्ञानं सर्वज्ञस्येति सव्वण्णुशब्दे उपपादयिष्यते) अइकं डु इय-न०(अतिकण्डू यित)अत्या० स०। अतिशयिते नखैर्विलेखने, सूत्र०१श्रु०३ अ०३उ०। अ(ति)इकंत-त्रि०(अतिकान्त)अत्या० स०। अतिकमनीये, प्रश्न० १अध०द्वा०४ अ० समुद्रभेदाधिपतौ च। पुं०। द्वी०। . अइकाय-पुं०(अतिकाय)अतिक्रान्तः कायात् / अत्या०स०। महोरगविशेषे, प्रज्ञा०१ पद / महोरगेन्द्रे च / स्था०२ ठा०। (अग्रमहिष्यादयःस्वस्वस्थाने)बृहच्छरीरे, त्रिका उम्गविसे चंडधोरविसे महाविसे अइकाये महाकाए,(सर्पवर्णकः) कायान् शरीराणि शेषाहीनामतिक्रान्तोऽतिकायः अत एव महाकायः / ज्ञा०६ अ०॥ अथवाऽतिकायानां मध्ये महा-कायोऽतिकायमहाकायः। भ०१५ श० 1 उ०। अत्युत्कटः कायोऽस्य। विकटदेहे, त्रि०। रावणपुत्रे राक्षसभेदे, पुंगवाचा अ(ति)इक्कंत-त्रि०(अतिक्रान्त)अति-क्रम-क्ति / अतीते, आचा०१ श्रु०४ अ०१ उ०।"जेयबुद्धा अतिकता'। सूत्र०१श्रु०११अतीर्णे, विशे० आ०म०प्र०। पर्यन्तवर्तिनि, जी०३ प्रति० औ०। त्यक्तवति, सव्वसिणेहाइक्कंता।औ० अ(ति)इक्कं तजोव्वण-त्रि०(अतिक्रान्तयौवन)अत्या०स०।। अतीततारुण्ये, अपत्तजोव्वणा अइकंतजोव्वणा। स्था० 5 ठान अ(ति)इक्कंतपचक्खाण-न०(अतिक्रान्तप्रत्याख्यान) अतिक्रान्ते पर्वणि यत् क्रियते तदतिक्रान्तं तच तत् प्रत्याख्यानम्। प्रत्याख्यानभेदे। ध०२ अधि०। आव०। एवमेवाऽतीते पर्युषणादौ करणादतिक्रान्तम् / आह च- पजोसवणाए तवं, जो खलुन करेइ कारणजाए। गुरुवेयावच्चेणं, तवस्सि-गेलण्णयाएव।।१।। सो दाइंतवोकम्मं, पडिवज्जइतं अइच्छिए काले। एवं पचक्खाणं, अइक्वंतं होइ नायव्वंति // 2 // स्था० 10 ठा०। अतिक्कं तं णाम पजोसवणाए तवं तेहिं कारणे हिं ण कीरति गुरुतवस्सिगिलाणकारणेहिं सो अतिक्कतं करेति तहेव विभासा। आoचू०आबन अइक्कम-पुं०(अतिक्रम) अति-क्रम्-घञ्। यतिचारे, पाणा-ऽइवायस्स | वेरमणे एस वुत्ते अइक्कमे।ध०३ अधि०। सूत्र०ा अतिलङ्घने, आचा०१ / श्रु०७अ०॥ उपा० विनाशे, आचा०१श्रु०२ अगसाधुक्रियोल्लङ्घने, आव०४ अ०। अतिक्रमव्यतिक्रमादयः साधुक्रियोल्लङ्घनरूपास्तत्राऽतिक्रमस्याऽऽधाकर्माश्रित्य स्वरूपमित्थम् - आहाकम्म निमंतण, पडिसुणमाणो अतिक्कमो होई। पयभेयाइवइक्कम-गहिए तइओ तरो गिलिए। कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा आधाकर्म निष्पाद्य निमन्त्रयति / यथा भगवन् ! युष्मन्नि-मित्तमस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यता- मित्यादि / तत्प्रतिशृण्वति अभ्युपगच्छति अतिक्रमो नाम दोषों भवति / स च तावद्यावदुपयोगपरिसमाप्तिः / किमुक्तं भवति ? यत् प्रतिशृणोति प्रतिश्रवणानन्तरंचोत्तिष्ठति पात्राण्युद्गृह्णाति उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति / एष समस्तोऽपि व्यापारोऽतिक्रमः। उपयोगपरिसमाप्त्यनन्तरं च यदाधाकर्म-ग्रहणाय पदभेदं करोति आदिशब्दात् मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणाय पात्रं प्रसारयति न चाऽद्यापि प्रतिगृह्णाति एव सर्वोऽपि व्यापारो व्यतिक्रमः। (गहिए तइओत्ति) आधाकर्मणि गृहीते उपलक्षणमेतत् / यावद् वसतौ समानीते गुरुसमक्षमालो चिते भोजनार्थमुपस्थापिते मुखे प्रक्षिप्यमाणेऽपि च यावत् नाऽद्यापि गिलति, तावत् तृतीयोऽतिचारलक्षणो दोषः। गिलिते त्वाधाकर्मण्यनाचारः / एवं सर्वेष्वप्यौद्देशिकादिषु भावनीयम्। पिं० धर्माच्या स्था०। ध००। आतुला एवं भावना मूलगुणेषु उत्तरगुणेषु च कार्या / अत्राऽयं विवेकः। मूलगुणेषु अतिक्रमादिभिस्त्रिभिश्चारित्रस्य मालिन्यं तस्य चाऽऽलोचनप्रतिक्रमणादिभिः शुद्धिः, चतुर्थे तुभङ्ग एव। तथा च सतिपुनरुपस्थापनैव युज्यते। उत्तरगुणेषु चतुर्भिरपि चारित्रस्य मालिन्यं न पुनर्भङ्ग इत्युक्त मूलोत्तरगुणाऽतिचाराः / ध० 3 अधि०। (ज्ञानदर्शनचारित्रभेदादतिक्रमादीनां त्रैविध्यमिति संकिलेस शब्दे) अइक्कमण-न०(अतिक्रमण)अति-क्रम्-ल्युट्।लड्नने, विराधने, ध० 2 अधिo आवन अइक्कमणिज्ज-त्रि०(अतिक्रमणीय) अतिलकनीये, सूत्र० 270 ७अ० अइक्कमित्तु-अव्य०(अतिक्रम्य)अतिक्रम-त्वा-ल्यप्। उल्लच्येत्यर्थे, तं अइक्कमित्तु न पविसे। दश०५ अ० अइगंभीर-त्रि०(अतिगम्भीर) अतीवातुच्छाशये, पंचा०२ विव०। अइगच्छमाण-त्रि०(अतिगच्छत)अति-गम+शत। प्रविशति, नि० चू० 6 उज्ञासा अइग(य)त-त्रि०(अतिगत)अति-गम्-क्त / प्रविष्ट, जे भिक्खू गाहावइकुलं अतिगते। नि०चू०३ उ०। प्राप्ते च / तं०। अइगम-पुं०(अतिगम) प्रवेशे, आ०म०प्र०। अइगमण-पुं०(अतिगमन) प्रवेशमार्गे, ज्ञा० 1 अ०। अइगुरु-पुं०(अतिगुरु)अतिशयितो गुरुः पूज्यतमत्वात्। प्रा० स०॥ त्रयः पुरुषस्याऽतिगुरवो भवन्ति पिता माताऽऽचार्यश्चेति। वाच०। अइचंद-पुं०(अतिचन्द्र)षष्ठे लोकोत्तरमुहूर्ते, कल्पा अइचरा-स्त्री०(अतिचरा)अतिक्रम्य स्वस्थानं सरोऽन्तरं चरति गच्छति / चर्+अच् / पद्मिन्याम्,तत्तुल्याकारवत्त्वात् स्थलपछि-न्यां पदाचारिण्या लतायां च / अतिक्रमणकारिणि, त्रि०ावाचा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy