________________ [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०२] रात्रौ वा // 8 // रात्रौ युक्तस्य वा लुक् स्याद्, राई रत्ती च सिध्यतः। अनादौ शेषाऽऽदेशयोर्द्रित्वम्।।८६] अनादिभूतयोः शेषाऽऽदेशयोर्द्वित्वमिष्यते। तत्र शेषे यथा-कप्पतरू भुत्तं प्रयुज्यते। आदेशे तु यथा-डक्को जक्खो रगो निगद्यते। क्वचिन्न-कसिणो-उनादाविति किम्? खलिअं यथा। द्वित्वं द्वयोरेव न स्याद्, भिण्डिपालो च विञ्चुओ। द्वितीय-तुर्ययोरुपरि पूर्वः ||6|| द्वितीय-तुर्ययोर्द्वित्व-प्रसङ्गे पूर्ववर्तिनौ। वर्गस्थौ भवतो वर्णावुपरिष्टादितीर्यते॥ शेषे यथा तु वक्खाणं, वाघो मुच्छा न निज्झरो। कष्ठं तित्थं च गुप्फंच, निज्झरो निटभरो तथा। आदेशे तु यथा-जक्खो, (घस्य नास्ति) अच्छी मज्झंच भिडभलो। पट्ठीयुड्डो च हत्थो चाऽऽलिद्धो पुप्फ प्रपठ्यते। तैलादो (2/68) ओखलं, नक्खा नहा सेवादिषु (2/EE) स्मतमम्कइद्धओ कइधओ, समासे वा (2/97) प्रयुज्यते। दीर्घ वा||१|| दीर्घशब्दे तु शेषस्य, घकारस्य विभाषया। उपरि स्यात् पूर्ववर्णो, दिग्घो दीहो द्वयं यथा। नदीर्घानुस्वारात्॥६ दीर्घानुस्वाराभ्यां, लाक्षणिकालाक्षणिकरूपाभ्याम् / शेषस्यादेशस्य च, परस्य द्वित्वं विजानीयात्।। छूढो फासो नीसासो-इलाक्षणिके यथा-ऽऽस्य-माऽऽसं' स्यात् पार्श्व पासं,शीर्ष सीसं द्वेष्यो भवेवेसो। लास्यं लासं, प्रेष्यः पेसो, आज्ञप्तिराणत्ती। अवमाल्यम्-'ओमालं,' आज्ञा-आणा, ह्यनुस्वारात्-1 यस्र-तंसं, चालाक्षणिके संझा तु संध्यायाः। विंज्ञो कंसालो चेत्यादितु नानाविधं लक्ष्यम्। र-होः ||3|| रेफस्यापि हकारस्य न द्वित्वं स्यात् कदाचन। रेफो न शिष्यते क्वापि, तस्मादादेश ईक्ष्यताम्॥ सुन्देरं बम्होरं पेरन्तं शेषस्य हस्यतु। विहलो स्यात्, तथाऽऽदेशस्य रूपं च कहावणो। धृष्टद्युम्ने णः || धृष्टद्युम्ने तु न द्वित्वं णस्याऽऽदेशस्य कर्हिचित्। धद्वज्जुणो ततो रूपं, प्राकृते सिद्धिमृच्छति। कर्णिकारे वा || कर्णिकारे न वा द्वित्वं-णस्य शेषस्य, तद्यथा-। कणिआरो कण्णिआरो, द्वयं सिद्धिमुपागमत्। दृप्ते // 6|| दृप्ते शेषस्य न द्वित्वं, दरिओ दृप्त उच्यते। समासे वा|७|| स्यात् शेषादेशयोर्द्वित्वं, समासे तु विभाषया। नइगामो नइग्गामो, अशेषादेशयोःक्वचित्। स-पिवासो स-प्पिवासो,अइंसण-मऽदसणं। तैलादौ // 6 तैलादिषु यथालक्ष्यमनादेर्व्यञ्जनस्य-तु। अन्त्यानन्त्यस्यवर्णस्य, द्वित्वं स्यादिति संमतम्। तेल्लं बहुत्तं मण्डुक्को, विड्डा वेइल्लमित्यपि। सोत्तं पेम्मंजुव्वणं स्यादनन्त्यस्य, निदर्शनम्। आर्षे तु विस्सोअसिआ, पडिसोओ च भूरिशः। तैल-प्रभूत-मण्डूका ऋजु व्रीडा च यौवनम्। स्रोतो विचकिलं प्रेम, तैलादिः समुदाहृतः / / सेवादौ वा IRELI सेवादिषु यथालक्ष्यमनादेर्व्यञ्जनस्य वा। अन्त्याऽनन्त्यस्य वर्णस्य द्वित्वं स्यादिति कथ्यते। सेव्या सेवा, मेडु नीडं, नक्खा नहा, निहितो तु। निहिओ, बाहित्तो वाहिओ, दइव्वं च दइवं स्यात्।। माउक्कं माउअमे-को एओ कोउहल्ल कोउहलं। थुल्लो थोरो हुत्तं हूअं मुक्को च मूओ च।। वाउल्लो च वाउलो, तुण्हिक्को तुण्हिओ विकल्पवशात् / मुक्को मूओ, खण्णू खाणू, पिण्णं च थीणं च // द्वित्वमनन्त्यस्य यथा-अम्होरं तथाऽम्हकेरंच। सोचिअंसोचिअ वा स्याद्, रूपं तंचेअतंचे। सेवा नीडो निहित-मृदुक-व्याकुल-स्थूल-मूका एकस्तूष्णीक-चिअ-नख-चेआऽस्मदीयाश्च दैवम्। स्त्यानो हूतो निगदति मुनिः स्थाणु-कौतूहलं च सेवादिं तद् ग्रहशशिमितं 16 व्याहृतश्चापि शब्दः। शाङ्गै ङातृ पूर्वोऽत् / / 10 / / शाङे ङात् प्रागकारः स्यात्,'सारङ्ग' सिद्धिमश्नुते। क्ष्मा लाघा-रत्नेऽन्त्यव्यञ्जनात्॥१०१।। अन्तिमाद् व्यञ्जनात् प्रागत् क्ष्मा--इलाघा-रत्न इष्यते। छमा सलाहा रयणं, सूक्ष्मं सुहममाऽऽर्षतः।। स्नेहारन्योर्वा // 10 // स्नेहेऽग्नौ यश्च संयोगस्तस्य मध्ये तु वाऽद्भवेत्। नेहो सणेहो, अगणी अग्गी रूपं विदुर्बुधाः। प्लक्षे लात् / / 103|| अः स्यात् प्लक्षे लकारात् प्राक् 'पलक्खो' सिद्धिमश्नुते। ई-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् / / 104 // श्री-ही-कृत्स्न-क्रिया-दिष्ट्या-ऽर्हेषु युक्तान्त्यवर्णतः। प्रागिकारो भवेदेषु षट्सु, तल्लक्ष्यतेऽधुना। सिरी हिरी, च कसिणो किरिआ दिद्विआऽरिहा, 'हयं नाणं किया-हीणं' इत्याचे क्वचिदिष्यते। श-ई-तप्त-वजे वा // 10 // तप्त-वज-र्श-र्षशब्दे संयुक्तस्यान्त्यवर्णतः। प्रागिकारो विकल्पेन, भवेदित्युपदिश्यते।। (श)आयरिसो आयंसो, सुदरिसणो वा सुदंसणो,(र्ष) वासा। वरिसा, वासं वरिसं, वरिस-सयं वाससयमिति च। नित्यं क्वचिद् व्यवस्थित-विभाषया दृश्यते-ऽमरिसो।