________________ असिद्ध 847 - अभिधानराजेन्द्रः - भाग 1 असिद्ध प्रति वा भागासिद्धत्वम् 5, आश्रया-सिद्धः, यथा-अस्ति प्रधानं, विश्वस्य परिणामिकारणत्वात् 6, आश्रयैकदेशासिद्धः, यथा नित्याः प्रधानपुरुषेश्वराः, अकृत-कत्वात् / अत्र जैनस्य पुरुषः सिद्धो, न प्रधानेश्वरौ 7, सन्दिग्धा-श्रयासिद्धः, यथा-गोत्वेन संदिह्यमाने गवये आरण्यकोऽयं गौः, जनदर्शनोत्पन्नत्रासत्वात् 8, संदिग्धाश्रयैकदेशासिद्धः, यथा-गोत्वेन संदिह्यमाने गवये गवि च आरण्यकावेतौ गावौ, जनदर्शनोत्पन्नवासत्वात् 6, आश्रयसंदिग्धवृत्त्यसिद्धः, यथाआश्रयहेत्वोः स्वरूपनिश्चये आश्रये हेतुवृत्तिसंशये मयूरवानयं प्रदेशः, केकायितोपेतत्वात् 10, आश्रयैकदेशसंदिग्धवृत्त्यासिद्धः, यथाआश्रयहेत्वोः स्वरूपनिश्चये सत्येवाऽऽश्रयैकदेशे हेतुवृत्तिसंशये मयूरवन्तावेतौ सहकारकर्णिकारी, ततएव 11, व्यर्थविशेषणा-सिद्धः, यथा-अनित्यः शब्दः, सामान्यवत्त्वे सति कृतकत्वात् 12, व्यर्थविशेष्यासिद्धः, यथा-अनित्यः शब्दः, कृतकत्ये सति सामान्यवत्त्वात् १३,संदिग्धासिद्धः, यथा-धूमबाष्पादिविवेका-निश्चये कश्चिदाह-वह्निमानयं प्रदेशः, धूमवत्त्वात् 14, संदिग्ध-विशेष्यासिद्धः, यथा-अद्यापि रागादियुक्तः कपिलः, पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् 15, संदिग्धविशेषणासिद्धः, यथा-अद्यापि रागादियुक्तः कपिलः, सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात् 16, एकदेशासिद्धः, यथा- प्रागभावो वस्तु, विनाशोत्पादधर्मकत्वात् 17, विशेषणैकदेशासिद्धः, यथा-तिमिरमभावस्वभावम्, द्रव्य-गुणकर्मातिरिक्तत्वे सति कार्यत्वात्। अत्र जैनान् प्रति तिमिरे द्रव्यातिरेको न सिद्धः 18, विशेष्यैकदेशासिद्धः, यथा-तिमिरमभावस्वभावं, कार्यत्वे सति द्रव्यगुणकर्मातिरिक्त-त्वात् 16, संदिग्धैकदेशासिद्धः, यथानाऽयं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वात्। अत्र लिङ्गादनिश्चिते रागित्वे संदेहः 20, संदिग्धविशेषणैकदेशासिद्धः, यथा- नाऽयं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वे सति पुरुषत्वात् 21. संदिग्धविशे-ष्यैकदेशासिद्धः, यथा-नाऽयं पुरुषः सर्वज्ञः, पुरुषत्वे सति रागवक्तृत्वोपेत्वात् 22, व्यर्थंकदेशासिद्धः, यथा- अग्निमानयं पर्वतप्रदेशः,प्रकाशधूमोपेतत्वात् 23, व्यर्थविशेषणैकदेशा-सिद्धः, यथा-गुणः शब्दः, प्रमेयत्वसामा न्यवत्त्वे सति बाह्मैकेन्द्रियग्राह्यत्वात् / अत्र बाौकेन्द्रियग्राह्यस्यापि रूपत्वादि-सामान्यस्य गुणत्वाभावाद्व्यभिचारपरिहाराय सामान्यवत्त्वे सतीति सार्थकम्, प्रमेयत्वं तुव्यर्थम् 24, व्यर्थ-विशेष्यैकदेशासिद्धः, यथा-गुणः शब्दः, बाझैकेन्द्रियग्राह्यत्वे सतिप्रमेयत्वसामान्यवत्त्वात् 25, एवमन्येऽप्येकदेशासिद्ध्यादिद्वारेण भूयांसोऽसिद्धभेदाः स्वयमभ्यूह्य वाच्याः / उदाहरणेषु चैतेषु दूषणान्तरस्य सम्भवतोऽप्यप्रकृतत्वादनुपदर्शनम्। त एते भेदा भवद्भिः कथं नाऽभिहिताः? उच्यते-एतेषु ये हेत्वाभासतां भजन्ते, ते यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते, तदोभयासिद्धेऽन्तर्भवन्ति / यदा त्वन्यतरासिद्धत्वेन, तदाऽन्यतरासिद्ध इति। व्यधिकरणासिद्धस्तु हेत्वाभासो न भव-त्येव। व्यधिकरणादपि पित्रोाह्मण्यात्पुत्रे बाह्यण्यानुमानदर्शनात, नटभटादीनामपि ब्राह्मण्यं कस्मान्नाऽयं साधयतीति चेत् ? | पक्षधर्मोऽपि पर्वतद्रव्यताः तत्र चित्रभानु किमिति नानुमापयति ? इति समानम्, व्यभिचाराचेत् तदपितुल्यम्।तत्पित्रोर्ब्राह्मण्यं हि तद्गमकम्।। एवं तर्हि प्रयोजनसम्बन्धेन सम्बन्धो हेतुः कथं व्यधिकरणः ? इति चेत्। ननु यदि साध्याधिगमप्रयोजक सम्बन्धाभावाद् वैयधिकरण्यमुच्यते, तदानीं संमतमेवैतदस्माकं दोषः, किन्तु प्रमेयत्वादयोऽपि व्यधिकरणा एव वाच्याः स्युन व्यभिचारोदयः / तस्मात्पक्षान्यधर्मत्वाभिधानादेव व्यधिकरणो हेत्वाभासः,ते सम्मतः, स चागमक इति नियम प्रत्याचक्ष्महे / अथ प्रतिभोहशक्त्याऽन्यथाभिधानेऽपि ब्राह्मणजन्यत्वादित्येवं हेत्वर्थं प्रतिपद्य साध्यं प्रतिपद्यते इति चेत्, एवं तर्हि प्रतिभोहशक्त्यैव पटस्य कृतकत्वादित्यभिधानेऽपि पटस्य कृतकत्वादनित्यत्वं दृष्टम्। एवं शब्दस्यापि, तत एव तदस्त्विति प्रतिपत्तौ नायमपि व्यधिकरणः स्यात्, तस्माद्यथोपात्तो हेतुस्तथैव तद्गमकत्वं चिन्तनीयम्। न च यस्मात्पटस्य कृतकत्वं तस्मात्तदन्येनाप्यनित्येन। भवित-व्यमित्यस्ति व्याप्तिः / अतोऽसौ व्यभिचारादेवागमकः / एवं काककार्यादिरपि। कथं वा व्यधिकरणोऽपि जलचन्द्रो नभश्चन्द्रस्य, कृत्तिकोदयो वा शकटोदयस्य गमकः स्यात् ? इति नास्ति व्यधिकरणो हेत्वाभासः / आश्रयासिद्धताऽपि न युक्ता / अस्ति सर्वज्ञः, चन्द्रोपरागादिज्ञानान्यथाऽनुपपत्तेरित्यादरेपिगमकत्वनिर्णयात्। कथमत्र सर्वज्ञधर्मिणः सिद्धिः इति चेत्, असिद्धिरपि कथमिति कथ्यताम् ? प्रमाणागोचरत्वादस्येति चेत्, एवं तर्हि तवापि तत्सिद्धिः कथं स्यात् ? ननु को नाम सर्वज्ञ-धर्मिणमभ्यघात, येनैष पर्यनयोगः सोपयोगः स्यादिति चेत् ? नैवम्। प्रमाणागोचरत्वादित्यतः सर्वज्ञो धर्मीन भवतीति सिषाधयिषितत्वात् / अन्यथेदमम्बरं प्रति निशिततर-तरवारिच्यापारप्रायं भवेत्। एवं च - आश्रयासिद्धता तेऽनुमाने न चेत् , साऽनुमाने मदीये तदा किं भवेत् ? / आश्रयासिद्धता तेऽनुमानेऽस्ति चेत्, साऽनुमाने मदीये, तदा किं भवेत् ? // 1 // यदि त्वदीयानुमानेनाऽऽश्रयासिद्धिरस्ति, तदा प्रकृतेऽप्यसौ मा भूद्, धर्मिण उभयत्राप्यैक्यात, अन्यस्याऽस्य प्रकृतानुपयोगित्वात्। अथाऽस्तितत्राऽऽश्रयाऽसिद्धिः, तदा बाधकाभावात् एषा कथंमदीयेऽनुमाने स्यादिति भावः / तथा च - विकल्पाद्धर्मिणः सिद्धिः, क्रियतेऽथ निषिध्यते। द्विधाऽपि धर्मिणः सिद्धि-र्विकल्पाते समागता॥१॥ द्वयमपि नाऽस्मि, करोमीत्यप्यनभिधेयम्, विधिप्रतिषेधयोर्युगपद्विधानस्य प्रतिषेधस्य चाऽसंभवात् / यदि च द्वयमपि न करोषि, तदा व्यक्तममूल्यक्रयी कथं नोपहासाय जायसे ? तथा-तायामाश्रयासिद्ध्युद्भावनाऽघटनात् / ननु यदि विकल्पसिद्वेऽपि धर्मिणि प्रमाणमन्वेषणीयम्, तदा प्रमाणसिद्धेऽपि प्रमाणान्तरमन्विष्यताम् / अन्यथा तु विकल्पसिद्धेऽपि पर्याप्त प्रमाणा-न्वेषणेन, अहमहमिकया प्रमाणलक्षणपरीक्षणं परीक्षकाणा-मकक्षीकरणीयं च स्यात्, तावन्मात्रेणैव सर्वस्यापि सिद्धेः। तथा च चाक्षुषत्वादिरपि शब्दानित्यत्वे साध्ये सम्यग्हेतुरेव भवेदिति चेत्। तदत्यल्पम्। विकल्पाद्धिसत्त्वासत्त्वसाधारणं धर्मिमात्र प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति, यतोऽनुमानाऽनर्थक्यं भवेत् / अन्यथा पृथिवीधरसाक्षात्कारे कृशानुमत्त्वसाधनमप्यपार्थकं भवेत् / तस्यानिमतोऽनग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात् / अग्निमत्त्वाऽनग्निमत्त्वविशेषशून्यस्य शैलमात्रस्य