________________ सजं 827 - अभिधानराजेन्द्रः - भाग 1 असज्झाइय असचं-त्रि०(असज्जत्) सङ्गमकुर्वति, "असञ्जमित्थीसु वएज पूयणं''। आचा०१श्रु०५अ०४301 असज्जमाण-त्रि०(असजत्) सङ्गमकुर्वति, उत्त०१४अ० ते कामभोगेसु असज्जमाणा, माणुस्सएसुं जे यावि दिव्वा"॥१४॥ उत्त०१४अ०। "असज्जमाणो य परिव्वएजा' असज्जमानः सङ्गमकुर्वन् गृहपुत्रकलवादिषु परिव्रजेदुयुक्तविहारी। सूत्र०१ श्रु० 10 // असज्झय-त्रि०(असाध्य) अशक्ये, पिं० अनिवर्तनीयस्वभावे, आ०म०द्विा असज्झाइय-न०(अस्वाध्यायिक) आ मर्यादया सिद्धान्तोक्त-न्यायेन पठनम्-आध्यायः, सुष्टु शोभन आध्यायः स्वाध्यायः, स एव स्वाध्यायिकम् / नास्ति स्वाध्यायो यत्र तदस्वाध्यायिकम्। रुधिरादौ स्वाध्यायाकरणहेतौ, प्रव०२६द्वार / न स्वाध्यायिक- मस्वाध्यायिकम् / कारणे कार्योपचाराद् रुधिरादौ, ध०३अधि०। __ अस्वाध्याये स्वाध्यायो न कर्तव्यःणो कप्पइ निग्गंथाणं वा निग्गंथीणं वा असज्झाइए सज्झायं करित्तए, कप्पइ निग्गंथाणं वा निग्गंथीणं वा सज्झाइए सज्झायं करित्तए। अस्य व्याख्या-न कल्पते निर्ग्रन्थानां निर्ग्रन्थीनांबा अस्वा-ध्यायिके स्वाध्यायं कर्तुम, कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा स्वाध्यायिके स्वाध्यायं कर्तुमिति सूत्राक्षरसंस्कारः। अधुना भाष्यप्रपञ्चःअसझाइयं च दुविहं, आयसमुत्थं परसमुत्थं च / जं तत्थ परसमुत्थं, तं पंचविहं तु नायव्वं / / द्विविधंखल्यस्याध्यायिकम्। तद्यथा- आत्मसमुत्थं, पर-समुत्थम्। चशब्दश्चास्वाध्यायिकतया तुल्यकक्षतासंसूचकः / तत्र यत् परसमुत्थं तत्पञ्चविधं ज्ञातव्यम्। तानेव पञ्च प्रकारानाहसंजमघाउप्पाए, सदेवए वुग्गहे य सारीरे। एएसु करेमाणे, आणाइय मो उ दिटुंतो॥ संयमघाति संयमोपघातिकम्, औत्पातिकमुत्पातनिमित्तं, सदैवं देवताप्रयुक्तं, व्युद्ग्रहः, शरीरंच। एतेषु पञ्चष्वप्यस्वाध्यायिकेषु स्वाध्यायं कुर्वत्याज्ञादयः आज्ञाभङ्गादयो दोषाः, तथाऽऽज्ञां तीर्थकराणां यो भञ्जति, तस्य प्रायश्चित्तं चतुर्गुरु / अन-वस्थयाऽन्येऽपि तथा करिष्यन्तीति, तत्रापि प्रायश्चित्तं चतुर्गुरु, यथा वादी तथा कारी न भवतीति मिथ्यात्वं, तन्निष्पन्नमपि प्रायश्चित्तं चतुर्गुरु। विराधना द्विधासंयमविराधना, आत्मविराधना च / तत्र संयमविराधना ज्ञानाचारविराधना। आत्मविराधनाया-मेवमुदाहरणम् - तदेवाहमेच्छभय घोसण निवे, दुग्गाणि अतीह मा विणस्सहिहा। फिडिया जे उ अतिगया, इयरा हय सेस निवदंडो॥ "कस्स वि रण्णो मेच्छखंधावारो विसयं आगंतुं हणियकामो, तं भयं जाणित्ता रण्णा सविसए सकले वि घोसावियमित्थं-मेच्छखंधावारो आगंतुं विसयं हणिउकामो वट्टति, तुन्भे दुग्गाणि अतीह। तत्थ जेहिं रन्नो | आणा कया, ते मेच्छभयातो फिड्डिआ, जेहिं न कया आणा, ते मेच्छेहिं झूसिआ मारिया य, जे वि तत्थ केइ परिमुक्का ते वि रण्णा दंडिया'। अक्षरयोजना त्वेवम्-म्लेच्छभयमाकर्ण्य नृपेण (गाथायां सप्तमी तृतीयार्थ) घोषणा कारिता / यथा-दुर्गाण्यतिगच्छथ, मा विनश्यथ, तत्र ये अतिगतास्ते म्लेच्छभयात् स्फिटिताः, इतरे हताः, कृतसर्वस्वापहाराश्च कृताः / येऽपि शेषाः कथमपि म्लेच्छभयविप्रमुक्तास्तेषामाज्ञाभङ्गकरणतो नृपेण दण्डः कृतः।व्य०७ उ०। "क्षितिप्रतिष्ठितपुरे, जितशत्रुर्नराधिपः। स्वदेशे घोषितं तेनागच्छतिम्लेच्छभूपतौ / / 1 / / त्यक्त्वा ग्रामपुरादीनि, दुर्गेषु स्थीयतां जनैः / ये राजवचसा दुर्गमारूढास्ते सुखं स्थिताः॥२॥ नारूढा ये पुनर्दुर्ग ,म्लेच्छाद्यैस्ते विलुण्टिताः। आज्ञाभङ्गानृपेणापि, गतशेषं च दण्डिताः॥३॥ अस्वाध्यायेऽपिस्वाध्यायाद् , दण्डः स्यादुभयादपि। देवताच्छलनेत्येकः, प्रायश्चित्तागमोऽपरः // 4 // इहलोके परस्मिश्च, ज्ञानाद्यफलता भवेत् आ०का एष दृष्टान्तोऽयमर्थोपनयःराया इव तित्थयरो, जाणवया साहु घोसणं सुत्तं / मेच्छाय असज्झाओ, रयणधणाई व नाणादी॥ अत्र राजा इव तीर्थकरः,जानपदाइव साधवः, घोषणमिव सूत्र,म्लेच्छा एवं अस्वाध्यायः, रत्नधनानीव ज्ञानादीनि / तत्र ये साधवो ज्ञानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति, ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन च दण्ड्यन्ते / व्य०७ उ०। आ०क० केन पुनः कारणेनाऽस्वाध्यायिके स्वाध्यायं करोति? तत आहथोवावसेसपोरिसि, अज्झयणं वा वि जो कुणइ सोचें। णाणाइसारहीणस्स तस्स छलना उ संसारे। स्तोकावशेषायामपि पौरुष्यामध्ययनं पाठ उद्देशो वाऽद्यापि समाप्तिन नीत इति कृत्वा उद्घाटायामपि पौरुष्यामस्तमिते वा सूर्ये, अथवा अस्वाध्यायिकमिति श्रुत्वाऽपि योऽध्ययनं पाठम, अपिशब्दादुद्देशनंच करोति, तस्य ज्ञानादित्रिकं तत्त्वतोऽपगतं, तीर्थकराऽज्ञाभङ्गकरणादिति / ज्ञानादित्रिकसारहीनस्य संसारे नरकादि-भवभ्रमलक्षणे छलना भवति, अपारघोरसंसारे निपतनं भवतीति भावः। अत्रैव दृष्टान्तान्तरं समभिधित्सुराहअहवा दिटुंतियरो,जह रण्णो पंच के पुरिसाउ। दुग्गादी परितोसिउ, तेहि अराया अह कयाई। तो देति तस्स राया, नगरम्मी इच्छियं पयारं तु / गहिए य देह मोल्लं,जणस्स आहारवत्थादी। एगेण तोसियतरो, गिहेऽगिहे तस्स सव्वहिं विधरे। रत्थाइसुं चउण्हं, एविह सज्झाइए उवमा।। अथवेति दृष्टान्तस्य प्रकारान्तरसूचने। इतरो दृष्टान्तः। यथा-राज्ञः केचित्पञ्च पुरुषाः सेबकास्तैरथ कदाचिद् राजा दुर्गादिषु पतितो निस्तारितः, तत्रापि तेषां पञ्चानां मध्ये एकेन केनचित्परम साध्वसमवलम्ब्य भूयस्तरं साहायिकमकारि, ततस्तेषां तेनैकेन