________________ असज्झाइय 828 - अभिधानराजेन्द्रः - भाग 1 असज्झाइय जितानां चतुर्णा राजा परितुष्टः सन् नगरे रथ्यादिषु गृहचर्यादिषु प्रचारमीप्सितं ददाति / यथा- 'यत्किमपि रथ्यायामापणादिषु, त्रिकचतुष्कचत्वरादिषु वा यदेव वस्त्राहारादिकं प्राप्नुयात्युष्मा-कमेव' / एवं प्रसादे कृते वस्त्राहारादौ नगरादितः स्वेच्छया गृहीते, राजा यस्य सत्कं यद् गृहीतं, तस्य मूल्यं ददाति / येन चैकेन पुरुषेण भूयस्तरसाहायिकं कुर्वता राजा तोषिततरः, यस्य राजा गृहेऽगृहे वा सर्वत्र नगरमध्ये प्रचारमीप्सितं विरतिमन्तराऽनुजानाति। तत्रापि यस्य सत्कं तेन गृह्यते वस्त्राऽऽहारादि, तस्यमूल्यं राज्ञा दीयते। इतरेषां चतुर्णा रथ्याऽऽदिष्वेव प्रचारमनुज्ञातवान्, न गृहेषु / एवमुक्तेन प्रकारेण इह प्रस्तुतेऽस्वाध्यायिके उपमादृष्टान्तः। तदेवमुक्तो दृष्टान्तः। सम्प्रति दान्तिकयोजनामाहपढमम्मि सव्वचेट्ठा, सज्झाओ वा विवारितो नियमा। सेसेसु य सज्झाओ, चेट्ठान निवारिआ अण्णा। प्रथमेऽस्वाध्यायिके संयमोपघातिलक्षणे, सर्वा कायिकी वाचिकी चेष्टा, स्वाध्यायश्च नियमाद्वारितः, तोषकतरपुरुषस्थानीयतया तस्य सर्वत्र साधुव्यापारेषु प्रवृत्तेः / शेषेषु पुनः चतुषु अस्वाध्यायिकेषु स्वाध्यायः, स्वाध्याय एव केवलो निवारितो, नान्या कायिकी वाचिकी या प्रतिलेखनादिका चेष्टा वारिता, तेषां शेषपुरुषचतुष्टय-स्थानीयाना बहिः रथ्यादाविव स्वाध्यायमात्र एव व्यापारभावात् / तदेवं पञ्चस्वप्यस्वाध्यायिकेषु सामान्यतो विशेषतश्चोदाहरणमुक्तम्___ इदानीं प्रथममस्वाध्यायिक संयमोपघाति प्ररूपयतिमहिया य भिन्नवासो, सच्चित्तरए य संजमे तिविहे। दव्वे खेत्ते काले, जहियं वा जचिरं सव्वं / / महिका गर्भमासे पतन्ती प्रसिद्धा, तस्यां, तथा-गृहादौ यत्पतति वर्ष तद्भिन्नवर्ष, तस्मिन्, तथा सचित्तरजसि च, एवंविधे त्रिप्रकारे संयमेपदैकदेशे पदसमुदायोपचारात् संयमोपघातिनि अस्वा-ध्यायिके निपतति, द्रव्यतः क्षेत्रतः कालतो भाषतश्च वर्जनं भवति। तत्र द्रव्यतःएतदेव त्रिविधमस्वाध्यायिकं द्रव्यम् / क्षेत्रतो-(जहियं ति) यावति क्षेत्रे तत्पतति तावत् क्षेत्रम्-कालतो-(यचिरं ति) यावन्तं कालं पतति तावन्तं कालम्। भावतः- सर्व कायिक्यादिचेष्टादिकं वय॑ते। एनामेव गाथां व्याख्यानयति. महिया उ गब्ममासे, वासे पुण होंति तिन्नि उपगारा। बुब्बुए तच फुसीए, सचित्तरजो य आयंबो॥ महिका गर्भमासे प्रतीताः। गर्भमासो नाम कार्तिकादिवित् माघमासः / वर्षे पुनस्त्रयः प्रकारा भवन्ति / तानेवाह-(बुब्बुए त्ति) यत्र वर्षे निपतति पानीयमध्ये बुबुदास्तोयशलाकारूपाः उत्तिष्ठन्ति, ततो वर्षमप्युपचाराद् बुबुदमित्युच्यते। तद्वर्ज बुबुदवर्ज द्वितीय वर्षम्, तृतीयं (फुसीएति) जल-स्पर्शिकनिपतन्त्यः, तत्र बुबुदे वार्यनिपतति यामाष्टकादूर्ध्वम् / अन्ये तु व्याचक्षते- त्रयाणां दिनानां परतः, तद्वर्जे पश्चानां दिनानां जलस्पर्शिकारूपे सप्तानां परतः सर्वमप्कायस्पृष्ट भवति / ततस्तत्र द्रव्यतः क्षेत्रतः कालतो भावतश्च वर्जन प्राग्वद्भावनीयम्, यावच्चाप्कायमयं न भवति, यावदुपाश्रयो निर्गलस्तत्र सर्व स्वाध्यायप्रतिलेखनादि क्रियते, बहिस्तुनिर्गम्यते इति। 'सचित्तरजो नाम व्यवहारसमन्विता यातोद्धता / श्लक्ष्ण-धूलिः, तच सचित्तरजो वय॑ते, ततोऽस्यां गाथायां पुंस्त्वं प्राकृतत्वात्। तच्च दिगन्तरेषु दृश्यते, तदपि निरन्तरपाते त्रयाणां दिनानां परतः सर्वपृथिवीकायाभावितं करोति, तत्रापि पतित-द्रव्यादितो वर्जन प्राग्वत्। तदेव व्याख्यातुमाहदव्वे तं चिय दव्वं,खेत्ते जहियं तु जचिरं काले। ठाणादि भास भावे, मोत्तुं ऊसासउम्मेसं / / द्रव्ये द्रव्यतः- तदेवास्वाध्यायिक महिकं भिन्नवर्ष सचित्तरजो वा वय॑ते / क्षेत्रतो- यत्र क्षेत्रे निपतति, कालतो-यावचिरं कालं पतति, भावतो-मुक्त्या उच्छ्वासमुन्मेषं च,तद्वर्जने जीवितव्या-घातसंभवात्। शेषां स्थानादिकाम, आदिशब्दाद् गमनागमन-प्रतिलेखनादिपरिग्रहः। कायिकां चेष्टां भाषां च वर्जयति। वासत्ताणाऽऽवरिया, निकारण ठवंति कन्ज जयणाए। हत्थंगुलिसन्नाए, पोत्तावरिया व भासंति॥ निष्कारणे कारणाभावे वर्षत्रयाणां कम्बलमयः कल्पः, तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृतास्तिष्ठन्ति, न कामपि लेशतोऽपि चेष्टां कुर्वन्ति / कार्ये तु समापतिते यतनया हस्तसंज्ञया अड्गुलिसंज्ञया च व्याहरन्ति / पोताऽऽवरिता वा भाषन्ते ग्लानादिप्रयोजने वर्षाकल्पाऽऽवृता गच्छन्ति / गतं संयमोपघात्यस्वाध्यायिकम्। इदानीमौत्पातिकमाहपंसुयमंसयरुहिरं-केससिलावुट्टि तह रओघाए। मंसरुहिरेऽहोरतं, अवसेसे जचिरं सुत्तं॥ अत्र वृष्टिशब्दः प्रत्येकमभिसंबध्यते। पांशुवृष्टौ, रुधिरवृष्टौ केशवृष्टी, शिलावृष्टौ च / तत्र पांशुवृष्टि म यदि रजो निपतति, मांसवृष्टिर्मास खण्डानि पतन्ति, रुधिरवृष्टिः रुधिरबिन्दवः पतन्ति / केशवृष्टिर्यद्वारा केशाः पतन्ति, शिलावृष्टिः पाषाणनिपतनं, करकादिशिलावर्षमित्यर्थः / तथा- रजउद्घाते रजस्वलासु दिक्षु सूत्रं न पठ्यते, शेषाः सर्वा अपि चेष्टाः क्रियन्ते / तत्र मांसरुधिर च पतति अहोरात्रं वय॑ते, अवशेषे पांशुवृष्ट्यादौ यावचिरं पाश्वादिपतनकालं, तावत् सूत्र नन्द्या - दिर्न पठ्यते, शेषकालं तु पठ्यते। सम्प्रति पांशुरजउद्घातव्याख्यानमाहपंसू अ अचित्तरजो,रयोसलाओ दिसा रउग्धाते। तत्थ सवाते निव्वा-यए य सुत्तं परिहरंति॥ पांशवो नाम धूमाकारमापाण्डुरमचित्तं रजः / रजउद्घातो रजस्वला दिशः, यासु सतीषु समन्ततोऽन्धकार इव दृश्यते, तत्र पांशुवृष्टौ, रजउद्घाते वा सवाते निति च पतति यावत्पतनं तावत्सूत्रं परिहरन्ति / अत्रैवापवादमाहसाभाविए तिणि दिणा, सुगिम्हए निक्खिवंति जइ जोगे। तो तम्मि पडतम्मी, कुणंति संवच्छरऽज्झायं / / यदि सुग्रीष्मकालप्रारम्भ उष्णप्रारम्भे, चैत्रशुक्लपक्षे इत्यर्थः / दशम्याः परतो यावत् पौर्णमासी, अत्रान्तरे निरन्तरं त्रीणि दिनानि यावत् यदि योग निक्षिपन्ति एकादश्यादिषु त्रयोदशीपर्यन्तेषु, यदि