________________ असंखेज 820 - अभिधानराजेन्द्रः - भाग 1 असंखेजब गणनामतिक्रान्ते, आ०चू०१० असंखेजकालसमयट्ठिइ-पुं०(असङ्खयेयकालसमयस्थिति) पल्योपमाऽसडेयभागादिस्थितिषु नैरयिकादिषु एकेन्द्रियविक- लेन्द्रियवर्ज वैमानिकपर्यन्तेषु, स्थावा"दुविहाणेरझ्या पण्णत्ता। तंजहासंखेजकालसमयद्विइया चेव, असंखेजकालसमयविइया चेवा एवं एगिदियविगलेंदियवजा० जाव वाणमंतरा' / स्था०२ ठा० 2 उ०। असंखेज्जगुणपरिहीण-त्रि०(असंख्यातगुणपरिहीण)असं-ख्यातगुणेन परिहीणो यः स तथा। असंख्येयभागमात्रे, औ०। असंखेजजीविय-पुं०(असङ्ख्यातजीवित) असंख्यजीवात्मकेषु वृक्षेषु, भला 'से किं तं असंखेजजीविया ? असंखेज्जजीविया दुविहा पण्णत्ता। तं जहा- एगट्ठिया, बहुट्ठिया य" / भ० 8 श०३ उ०। असंखेज्जय-न०(असंख्येयक) गणनासंख्याभेदे, अनु०॥ से किं तं असंखेज्जए ? असंखेज्जए तिविहे पण्णत्ते / तं जहापरित्तासंखेज्जए, जुत्तासंखेज्जए, असंखेजा-संखेज्जए। से किं तं परित्तासंखेज्जए ? परित्तासंखेञ्जए तिविहे पण्णत्ते / तं जहाजहण्णए, उक्कोसए, अजहण्णमणुक्कोसए / से किं तं जुत्तासंखेज्जए ? जुत्तासंखेज्जए तिविहे पण्णत्ते / तं जहा- जहण्णए, उक्कोसए, अजहण्णमणुक्कोसए। से किं तं असंखेज्जासंखेज्जए? असंखेज्जासंखेज्जए तिविहे पण्णत्ते। तं जहा- जहण्णए, उक्कोसए, अजहण्णमणुक्कोसए। असंख्येयकं तु-परीतासंख्येयकं, युक्तासंख्येयकं, असंख्येयाऽसंख्येयकम् / पुनरेकैकं जघन्यादिभेदात् त्रिविधमिति सर्वमपि नवविधम्। अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाहएवामेव उक्कोसए संखेजए रूवे पक्खित्ते जहण्णय परित्तासंखेजय भवइ / तेण परं अजहण्णमणुक्कोसयाइं ठाणाई जाव उक्कोसयं परित्तासंखेज्जयं न पावइ | उक्कोसयं परित्तासंखेज्जयं केवइ होइ? जहण्णयं परित्तासंखेजयं, जहन्नयपरित्तासंखेज्जमेत्ताणं रासीणं अन्नमण्णऽब्भासो रूवूणो उक्कोसं परित्तासंखेज्जयं होइ। (एवामेवं त्ति) असंख्येयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः / तावद्यावदुत्कृष्ट-संख्येयकमानीतं, तस्मिँश्च यावदेकं रूपंपूर्वमधिकं दर्शितं तद्यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासंख्येयकं भवति / (तेण परमित्यादि) ततः परं परीतासंख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति यावदुत्कृष्ट परीतासंख्येयकं न प्राप्नोति / शिष्यः पृच्छति-कियत्पुनरुत्कृष्ट परीतासंख्येयकं भवति ? अत्रोत्तरम्-(जहण्णयं परित्तासंखेज्जयं ति) जघन्यपरीतासंख्येयकं यावत् प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासंख्येयकमात्राणां, जघन्यपरीतासंख्येयकगतरूपसंख्यानामित्यर्थः। राशीनामन्योन्यमभ्यासः परस्परं गुणनास्वरूप एकेन रूपेणोन उत्कृष्ट परीतासंख्येयकं भवतीति। इदमत्र हृदयम्-प्रत्येकं जघन्यपरीतासंख्येयस्वरूपा जघन्यपरीतासंख्येयका एव यावन्ति रूपाणि भवन्ति तावन्तः पुजा व्यवस्थाप्यन्ते / तैश्च परस्परं गुणितर्यो राशिर्भवति स एकेन रूपेण हीनमुत्कृष्ट परीतासंख्येयकं मन्तव्यम्। अत्र सुखप्रतिपत्त्यर्थ- मुदाहरण दर्श्यते- जघन्यपरीतासंख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते। ततः। पञ्चैव वाराः पञ्चपञ्च व्यवस्थाप्यन्ते। तथाहि- 55 5 x 5 x 5 x 5-3125 / अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः। सा च पञ्चभिराहता जातं पञ्चविंश-शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि / एतत्प्रकल्पनया एतावन्मानः। सद्भावतस्त्वसंख्येयरूपो राशिरेकेन रूपेण गुणहीन उत्कृष्ट परीतासंख्येयमित्याद्यनन्तरोक्ताद्युक्तासंख्येयकादेकस्मिन् रूपे समाकर्षिते उत्कृष्ट परीतासंख्येयकं निष्पद्यते इति प्रतीयत एव। इत्युक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासंख्येयकम्। अथ तावद्भेदभिन्नस्यैव युक्तासंख्येयकस्य निरूपणार्थमाहजहण्णयं जुत्तासंखेजयं केवइअंहोइ? जहन्नयंजुत्तासंखेज्जयं जहण्णयपरित्तासंखेञ्जयमेत्ताणं रासीणं अन्नमण्णब्भासो पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं होइ / अहवा उक्कोसए परित्तासंखेन्जए रूवं पक्खित्तं जहण्णयं जुत्तासंखेज्जयं होइ। आवलिआ वि तत्तिआ चेव / तेण परं अजहण्णमणुक्कोसयाई ठाणाइं० जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ / उक्कोसयं जुत्ता-संखेज्जयं केवइ होइ ? जहण्णएणं जुत्तासंखेज्जएण आवलिआ गुणिआ अन्नमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ / अहवा जहन्नयंअसंखेज्जासंखेजयं रूवणं उक्कोसयं जुत्तासंखेन्जय होइ।। (जहण्णयं जुत्तासंखेजयं केवइअमित्यादि) अत्रोत्तरम्- (जहण्णय परित्तासंखेज्जमित्यादि) व्याख्या पूर्ववदेव / नवरं- (अन्नमन्नडभासो पडिपुन्नो त्ति) अन्योन्याभ्यस्तः सपरिपूर्ण एव राशिरिह गृह्यते, नतु रूप पात्यत इति भावः ।(अहवा उक्कोसए परित्तासंखेज्जए इत्यादि) भावितार्थमेव / (आवलिया तत्तिया चेव त्ति) यावन्ति जघन्ययुक्तासंख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः / ततः सूत्रे यत्रावलिका गृह्यते तत्रजघन्ययुक्तासंख्येयकतुल्यसमयराशिमानासा द्रष्टव्या। (तेण परमित्यादि)ततो जघन्ययुक्तासंख्येयकात्परत एकोत्तरया वृद्ध्या असंख्येयान्यजघन्योत्कृष्टानि युक्तासंख्येयस्थानानि भवन्ति, यावदुत्कृष्ट युक्तासंख्येयकं न प्राप्नोति। अत्र शिष्यः पृच्छति-(उकोसयंजुत्तासंखेज्जयमित्यादि) अत्र प्रतिवचनम्(जहण्णएण-मित्यादि) जघन्येन युक्तासंख्येयकेनावलिका समयराशिगुण्यते / किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासंख्येय-राशिस्तेनैव राशिना गुण्यत इति तात्पर्यम् / एवं च कृते यो राशिर्भवति स एव एकेन रूपेणोन उत्कृष्टयुक्तासंख्येयकं भवति / यदि पुनस्तदेव तद्रूपं गुण्यते तदा जघन्यमसंख्येयासंख्येयकं जायते। अत एवाह-(अहवा जहण्णयं असंज्जासंखेज्जयं रूवूणमित्यादि) गतार्थम्। उक्तं युक्ताऽसंख्येयकं त्रिविधम्।