________________ असंखेजय 821 - अभिधानराजेन्द्रः-भाग 1 असंखेजय इदानीमसंख्येयासंख्येयकं त्रिविधं बिभणिषुराहजहन्नयं असंखेज्जासंखेज्जयं केवइयं होइ? जहन्नएणं ठाणाई जुत्तासंखेज्जएणं आवलिआ गुणिआ अण्णमण्णब्भासो पडिपुण्णो जहण्णयं असंखेज्जासंखेजय होइ। अहवा उक्कोसए जुत्तासंखेजए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होइ / तेण परं अजहण्णमणुक्कोसयाइं० जाव उक्कोसयं असंखेज्जासंखेज्जयं ण पावइ / उक्कोसयं असंखेज्जासंखेज्जयं केवइयं होइ? जहप्रणयअसंखेज्जासंखेजमेत्ताणं रासीणं अण्णमण्णब्मासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ। (जहण्णयं असंखेज्जासंखेज्जयमित्यादि) इदंतु सूत्रं भावितार्थमेव। नवरं (पडिपुण्णो त्ति) परिपूर्णो रूपं न पात्यत इत्यर्थः / अहवा' इत्याद्यपि गतार्थम् / (तेण परमित्यादि) ततः परं (असंखेज्जासंखेज्जकं केत्तियमि त्यादि) अत्रोत्तरम् - (जहण्णय असंखेज्जासंखेज्जयेत्यादि) जघन्यमसंख्येयकं यावद्भवतीति शेषः / तावत्प्रमाणानां जघन्यासंख्येयकरूपं संख्यानामित्यर्थः / राशीनामन्योन्यमभ्यासः परस्परं गुणनास्वरूपः, एकेन रूपेणोन उत्कृष्टमसंख्येयासंख्येयकं भवति / अयमत्र भावार्थःप्रत्येक जघन्यासंख्येयासंख्येयकरूपा जघन्याऽसंख्येयाऽसंख्येयका एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते / तैश्व परस्परगुणितैयाँ राशिर्भवति स एकेन रूपेण हीन उत्कृष्टम संख्येयासंख्येयकं प्रतिपत्तव्यम्। उदाहणं चात्राप्युत्कृष्ट परीतासंख्येयकोक्तानुसारेण वाच्यम् / अनु०। साम्प्रतमसंख्यातानन्तकस्वरूपमाहइय सुत्तुत्तं अन्ने, वग्गियमेकं सि चउत्थयमसंखं / होइ असंखासंखं, लहु रूवजुयं तु तं मज्झं ||8|| (अन्ने वग्गियमित्यादि) अन्ये आचार्या एके सूरय एवमाहुः- यथा चतुर्थकमसंख्यं जघन्ययुक्तासंख्यातकरूपं, वर्गितं तावतैव राशिना गुणितं सत्, (एक्कमिति) एकवारं, भवति जायते संपद्यते-ऽसंख्यासंख्यं, लघु जघन्यं, जघन्यासंख्यातासंख्यातकं भवतीत्यर्थः। अत्रापि मतेऽसंख्यातकमुद्दिश्य मध्यमोत्कृष्ट-भेदप्ररूपणा पूक्तिवेति दर्शयन्नाह(रूवजुयं तुतंमज्झं ति) रूपेण सर्षपलक्षणेन युतं रूपयुतम्।तुरखधारणे, व्यवहितसम्बन्धश्च / तदिति-तदेवानन्तराभिहितं जघन्यासंख्येयासंख्येयादिकम् / किं भवतीत्याह-मध्यं मध्यमासंख्येयासंख्येयादिक भवति ||8|| रूवूणमाइमं गुरु, तिवग्गिउं तं इमं दसक्खेवे। लोगागासपएसा, धम्माधम्मेगजीवदेसाय।।१।। तदेव जघन्यासंख्येयासंख्येयादिकं रूपोनमेकेन रूपेण रहितं सत्, आदिमं तदपेक्षयाऽऽद्यस्य राशेः संबन्धि गुरु उत्कृष्टं भवतीति / अयमत्राशयः-जघन्यासंख्येयासंख्येयकं रूपोनं सद् युक्तासंख्यातकमुत्कृष्ट भवति, जघन्यपरीतानन्तकं रूपोनमसंख्येयासंख्येयकमुत्कृष्टं भवति, जघन्ययुक्तानन्तकं तु रूपोनमुत्कृष्ट परीतानन्तकं भवति, जघन्यानन्तानन्तकं तु रूपोनमुत्कृष्ट युक्तानन्तकं भवतीति / अधुना जघन्यपरीतानन्तकं मतान्तरेण प्ररूपयन्नाह(तिवग्गिउं तं इत्यादि) तदिति प्रागभिहितं जघन्यासंख्येयासंख्येयकं त्रिवर्गयित्वा सदृशद्विराशि, परस्परं त्रीन् वारानभ्यस्येत्यर्थः / अयमत्राशयः- जघन्यासंख्येया-संख्येयकराशेः सदृशद्विराशिगुणनलक्षणो वर्गो विधीयते,तस्या-पि वर्गराशेः पुनर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनरपि वर्गों निष्पाद्यते इति / ततः किमित्याहइमान्, वक्ष्यमाणस्वरूपान्, (दसेति) दशसंख्यान् क्षिप्यन्त इति / "कर्मणि घत्रि" क्षेपाः- प्रक्षेपणीयराशयस्तान् क्षिपस्व निधेहीत्युत्तरगाथायां सम्बन्धः। तथाहि-लोकाकाशस्य प्रदेशाः, धर्मश्चाधर्मश्चैकजीवश्व धर्माधमकजीवाः तेषां देशाः प्रदेशाः। अयमत्रार्थ:-धर्मास्ति-कायप्रदेशाः, अधर्मास्तिकायप्रदेशाः, एकजीवप्रदेशाश्च / / 81 // तथाठिइबंधऽज्झवसाया, अणुभागा जोगछेयपलिभागा। दुण्ह य समाणसमया, पत्तेयनिगोयए खिवसु ॥सा स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कषायोदयरूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसंख्येयान्येव / तथाहि ज्ञानावरणस्य जघन्यान्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतस्तु त्रिंशत्सागरोपमकोटाकोटिप्रमाणः, मध्यमपदे त्वेकद्वित्रि चतुरादिसमयाधिकान्तमुहूर्तादिकोऽसंख्येयभेदः / एषां स्थिति-बन्धानां निवर्तकान्यध्यवसा यस्थानानि प्रत्येकमसंख्येय-लोकाकाशप्रदेशप्रमाणानि भिन्नान्येव / एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसंख्येयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते। एवं दर्शनावरणादिष्वपि वाच्यम् / (अणुभाग त्ति) अनुभागा ज्ञानावरणादिकर्मणांजघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात्कार्यभेदानाम् / (जोगछेयपलिभाग त्ति) योगो मनोवाक्कायविषयं वीर्य, तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदपरिभगाः। तेच निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिभेदभिन्ना असंख्येया मन्तव्याः। (दुण्ह य समाणसमय ति) द्वयोश्च समयोरुत्सर्पिण्यवसर्पिणीकालस्वरूपयोः समया असंख्येयस्वरूपाः / (पत्तेयनिगोयए त्ति) अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येक-शरीरिणः, सर्वेऽपि जीवा इत्यर्थः, ते चासंख्येया भवन्ति / निगोदाः सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ते चासंख्याताः। एवमेते प्रत्येकमसंख्येयस्वरूपा दश क्षेपास्तान क्षिपस्व / / 2 / / अथ राशिदशकप्रक्षेपानन्तरं तस्यैव राशेर्यस्मिन् विहिते यद्भवति तदाहपुणरवि तम्मि तिवग्गिए, परित्तऽणंत लहु तस्स रासीणं / अब्भासे लहु जुत्ता-णतं अभव्वजिअमाणं / / 83|| पुनरपि (तम्मि ति) तस्मिन्ननन्तरोदिते प्रक्षिप्तप्रक्षेपदशके, त्रिवर्गिते श्रीन वारान् वर्गिते सति, परीतानन्तं लघु जघन्य भवति / इदमुक्तं भवति- जघन्यासंख्येयासंख्येयकस्वरूपं वारत्रयं वर्गिते राशौ ते क्षेपाः क्षिप्यन्ते / तत इत्थं पिण्डितो यो राशिः संपद्यते स पुनरपि वारत्रयं वर्म्यते / ततो जघन्यं परीतानन्तकं भवतीति / इदमिदानीं जघन्ययुक्तानन्तकनिरूपणायाह-(तस्स रासीणं