________________
२० केशवकृतः कल्पद्रुकोशः गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि । कल्पद्रौ केशवकृते भूमिस्कन्धे गुणाद्भुते । पूःप्रकाण्डो द्वितीयोऽयं साङ्गः प्रत्यक्षतां गतः ।
भूपर्यायस्पृशो मा मानवा मनुजा विशः । मनुष्याः पृतना मर्ताः क्षितयो मानुषा अपि ॥ १॥ "श्रण्डीरा जगतः पञ्चजनाश्चर्षणयः पुनः । मन्तवो भूतलस्थाना द्विपदाश्चेतना जनाः ॥ २ ॥ मनूंषि मनुषा जानपदा जनपदाः प्रजाः। स्त्री भूम्न्ये धतवश्चैषां विशेषाः पुरुषा नराः ॥ ३ ॥ नरः पुमांसः पुरुषा स्त्रियां तु नपुंसकम् । पुंसि क्लीबे पण्डषण्डपाण्डाः पाण्डः पुनः स्त्रियाम् ॥४॥ तृतीयप्रकृतिश्चाथ नारी योषा च योषिता । प्रतीपदर्शिनी योषिद्वनिता महिलापि च ॥५॥ रामाऽबला महेला स्त्री सीमन्तिन्यपि मेहली। मेहला महिला चापि महिली महिलापि च ॥ ६ ॥ जोषिजोषा महेली च यामिर्यामी च जादिमे । स्त्रीपर्यायजनार्थो ना मण्डयन्तश्च सुन्दरी ॥ ७ ॥
चा २ पुः प्रकाण्डस्तृतीयोऽयंxc ३ संपूर्तिमागतः १ अखिKC ५ दधव ६ महीलीB