________________
केशवकृतः कल्पद्रुकोशः ११ काशी वाराणसी काशिर्वरणोसी वराणसी । महाश्मशानमानन्दवनं क्लीबेऽविमुक्तकम् ॥२१॥ शिवपर्यायलिङ्गार्थमथस्यादुजयन्यपि। विशालोजयिनी पुष्पकरण्डिन्यप्यवन्तिको ॥२२॥ तदुद्यानं समाख्यातं क्लीबे पुष्पकरण्डकम् । देवीकोट्टो 'वाणपुर कोटीवर्षमुमावनम् ॥२३॥ स्याच्छोणितपुरं चाथ चमत्कारपुरार्थकम् । नगरं वृद्धनगरमथ सिद्धपुरं पुनः ॥२४॥ सारस्वतं हैहयपूर्माहिष्मत्यपि चेष्यते। इन्दुपर्यायतः प्रस्थं योगिनीतः पुरार्थकम् ॥२५॥ पुरी नलस्य निषधा गयराजर्षिपूर्गया। पितृतीर्थ राजगृहं जरासंधपुरं हि तत् ॥२६॥ चम्पा तु मालिनी कर्णलोमपादपुरीत्यपि ॥२७॥ स्त्रियां क्लीबे "तामलिप्तं दामलिप्तं तमालिनी। वेलाकूलं स्तम्बपुरं विष्णुपर्यायपूरपि ॥२८॥ श्रथ वैदर्भपर्यायं कुण्डिनं कुण्डिनापुरम् । रथ्या प्रतोली विशिखा नगराभ्यन्तरायनम् ॥२६॥ कोटो वप्रोऽस्त्रियां सालः प्राकारो वरणः पुमान् । अस्त्री दुर्गोक्षणं क्लीवे पुनरावेष्टकः पुमान् ॥३०॥
1 बा B २ इन्द्र c B ३ तीर्थे । ४ तानः ५ कुलं B ६ लिपि ७ गोल :B