________________
४८४ केशवकृतः कल्पद्रुकोशः । कलशस्य कटाहस्य रश्मिषष्ट्योरितीहदिक् । परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥२०४॥ अर्थान्ताः प्राद्यलंप्राप्ताः पदपूर्वाः परोपगाः । तद्धितार्थो द्विगुः संख्या सर्वनामतदन्तकाः ॥२०५॥ प्रकृते लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । हरीतक्यादिप्रकृतिर्नलिङ्गमतिवर्त्तते ॥२०६॥ वचनं खलतिकादिर्बह्वर्थोत्पत्तिपूर्वकम् । स्त्रीपुंनपुंसकानां तु सहोक्तौ परलिङ्गता ॥२०७॥ कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । श्रणाद्यन्तास्ते न रक्ताद्यर्थे नानार्थभेदकाः ॥२०८॥ षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विधेये शेषे तु ज्ञेयं शिष्टप्रयोगतः ॥२०॥ कल्पना केशवकृते फलिते नाम सत्फलैः । स्त्र्यादीनामितिलिङ्गानां प्रकाण्डः सिद्धिमागतः ॥२१०॥