________________
केशवकृतः कल्पद्रुकोशः ४८३ कर्माष्ठीवदगुरुदन्तोममहिम्नां नाम पक्ष्मणोः।। धनुषः स्यादिति क्लीवपुंसयोः प्रकृतिस्थिताः ॥१९५॥ , खतस्थिलिंजेः सरकोऽनुतर्षे शललः शले।। करकोऽब्दोपले कोशः शिम्बा खड्ग पिधानयोः ॥१६॥ जीवः प्राणेषु केदारे वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥१७॥ भल्लातकामलकयोस्तारकाठकयोरपि । हरीतकपिटकयोस्तद्वद्विभीतकस्य च ॥१८॥ विलिङ्गस्य स्फुलिङ्गस्य कपाटस्य पुटस्य च । वटवाटपुटानां च तटस्य शकटस्य च ॥१६॥ पटपेटकटानां च तथैव मठकुण्डयोः। नीडस्य च विषाणस्य तूणकङ्कतयोरपि ॥२००॥ . मुस्ताकुथेङ्गुदानां च जृम्भदाडिमयोरपि । पुरोदरप्रतिसरविवराणामतः पुनः ॥२०१॥ पात्रकन्दरवल्लूरछत्राणां नखरस्य च । प्राणालनालकुवलमृणालानामथापि च ॥२०२॥ स्याच्छुसलमण्डलयोः पटलार्गलयोरपि । पूलकन्दलयोरित्थमवहेलस्य तत्पुनः ॥२०३॥