________________
केशवकृतः कल्पद्रुकोशः निःसाणोऽनेकवाद्यानामेकदा यो रणे ध्वनिः । भेरीशतसहस्राणि तथादशशतानि च ॥६॥ युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते । शब्दो निनादो निर्घोषो निहादो निःस्वनः स्वनः॥१०॥ 'स्वानो ध्वानः स्वरो हादो निस्वानो रव इत्यपि । नादो घोषःक्वणःक्वाणोनिक्वाणो निक्वणः क्वणः १०१ समाविभ्यः परो रावस्तथैव च पुनः स्त्रियौ । ध्वनिः स्वनिरपि क्लीबे फणनं चाथ रोदनम् ॥१०२॥ ऋन्दितं रुदितं क्रुष्टं तदपुष्टं तु गह्वरः । शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् ॥१३॥ पर्दनं गुदजे शब्दे कर्दनं कुक्षिसंभवे । कोलाहलः कलरवः संकुलो व्याकुलो रवः ॥१०४॥ मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् । हेषा हृषा तुरङ्गाणां गजानां गर्जहिते ॥१०५॥ कूजितं स्याद्विहङ्गानां तिरश्चां 'वासितं रुतम् । वृषस्य रेषणं रेषा बुकनं भषणं शुनः ॥१०॥ पीडितानां तु कणितं प्रक्वाणः प्रक्वणोऽपि च । वीणायाः क्वणिते च स्यान्मदलस्य तु गंदलः ॥१०७॥
, स्वानो ध्वनिः स्वरो हासोB २ क्वणनंB ३ गाकरःB ५ सीस्कृतेB ५ वाशितंB ६ वृकस्येति स्यात् ।