________________
केशवकृतः कल्पद्रुकोशः ४४५ समस्तैर्वर्णनीयैः स्याद् भूपामात्य'पुरोहिताः । राजवध्वश्च तत्पुत्राः सैन्यपः सैन्यनिर्गमः ॥५४॥ विषयो नगरं ग्रामः सरित्स्रोतस्विनी वनम् । अाश्रमो वाटिका मन्त्र ऋतुः समय इत्यपि ॥५५॥ हस्त्यश्वरथचन्द्रार्कास्तोदया विरहो रतम् । स्वयंवरस्तथा युद्धं पुष्पावचय इत्यपि ॥५६॥ एतैरन्यैश्च संयुक्त महारूपकनाटके । ३अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा ॥५७॥ प्रबन्धकल्पना सा स्यात् प्रवहिका प्रहेलिका । प्रहेलिः प्रश्नदूती च रथ्यावादस्तु वादलः ॥५८॥ समस्या तु समासार्था समाहारस्तु संग्रहः। . श्राख्यायिकोपरिकथोपलब्धार्थापि चेष्यते ॥६॥ आख्यायिकापरिच्छेदे त्वाश्वासोच्छवासको समौ। संदानमनिरुद्धं च प्रकीर्णं गुच्छकादिकम् ॥६॥ सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः । उल्लासः परिवर्तश्च पटलः काण्डमस्त्रियाम् ॥६१॥ स्थानं प्रकरणं पर्वाह्निकं तु शीघ्रपाठतः । अवान्तरप्रकरणं 'विश्रामो ग्रन्थसंधयः ॥६२॥
. पुरोहितैःB २ मन्त्रो दूतःB ३ अथवाव्ययभेदाःB विश्रामाB