________________
३६४ केशवकृतः कल्पद्रुकोशः फणाधरः फणधरः फणावान्फणवानपि । बिलवासी बिलेवासी गूढपादो बिलेक्षयः ॥३॥ चक्री बिलशयश्चापि कुण्डली व्यालभोगिनौ । पृदाकुः कञ्चकी व्याडः कुम्भीनससरीसृपौ ॥४॥ काकोदरो दन्दशूको विषार्थाद्धोधरोऽपि च । · भुजं भुजो'रोरंजिह्मपत्रेभ्यो गो गमः फणी ॥५॥
द्वे दीर्घादसनार्थः स्याल्लेलिहानश्च पुष्करः । गूढपादीर्घपृष्ठोऽहियोहीरश्च कद्रुजः ॥६॥ शेषस्तु नागपर्यायराजार्थोऽनन्त इत्यपि । विष्णुपर्यायशय्यार्थः सहस्रफणभूधरौ ॥७॥ सितपङ्कजचिह्नः स्यादालुको गौर इत्यपि । ज्येष्ठः कद्रुतनृजानां सर्पराजस्तु वासुकिः ॥८॥ श्वेतो नीलसरोजाङ्को लोहिताङ्गस्तु तक्षकः । स्वस्तिकाङ्कशिरा श्वाथ महापद्मोतिशुक्लकैः ॥६॥ दशभिर्बिन्दुभिर्युक्तशिराः पीत सितां गले । दधच्छन्दु सदृशा ज्वालाधूमसमश्च सः ॥१०॥ कालीयः कालियस्तुल्यौ कृष्णपादार्थचिह्निते । श्रद्धेन्दु मौलिः कुलिकोऽथापरे कम्बलः पुनः ॥११॥ , रोरर २ कद्र B । ३ श्चापिB ४ शितोB सिता इति पाठः स्यात् ५ सहशो
इति पाठः स्वात् ६ मौलिCk