________________
३५४ केशवकृतः कल्पद्रुकोशः स चलत्पूर्णिमा चाथ गङ्गाटेयो 'जलानिलः । जलवृश्चिक इश्चाकाप्यथ स्याल्लघुगर्गरः ॥१२॥ त्रिकण्टकोथ शालः स्याद् गन्धाहिः कूचिका द्वयोः । "स स्याच्छकुलगण्डोथ ब्राह्मी चम्पक पादुकः ॥३॥ पुंस्त्रियोर्मद्गुरः शृङ्गी दुर्नामा दीर्घकोश्यपि । उलुप्युलूपी चुलुकी चुलुम्पी चुलपीत्यपि ॥४॥ स तु राजीवसंज्ञः स्याद्यस्त्रिरेखासमन्वितः । शिलीन्ध्रः कचयो रामो दण्डारिः पाकमत्स्यकः ॥६५॥ संकोचिका पक्षिमत्स्यो विषपुच्छोप्यमीनरः । जात्या मत्स्या द्विधा ज्ञेयाश्चर्मजाः शल्कजा इति ॥६६॥ प्रत्येकं ते द्विधा प्रोक्ताः स्थूलसूक्ष्मप्रभेदतः । द्रुमचर्मपिनद्धाङ्गाश्चर्मजाः शल्कवर्जिताः ॥७॥ शल्कशुक्तिपिनद्धा ये शल्कजास्ते प्रकीर्तिताः । केचित्समुद्रसंभूताः केचिन्नाद्भवा इति ॥८॥ सारश्च शृङ्गासारश्च वञ्चिलो 'वालकस्तथा। कण्टकारः संकुचकश्चर्मजाः सागरोद्भवाः ॥६॥ कावाकः खिरिडिश्चैव पाठीनः सिंहतुण्डकः । एते मत्स्या महाकायाश्चर्मजा निम्नगोद्भवाः ॥१०॥ 1 गलानिल इत्यन्यत्र । गलानिलाB २ इन्द्राको ३ मर्गरः त्रि ४ सस्यातB
५ पडिक:B६चलुपीB७ पातिBEश्चBE न्यलकk रलकB