________________
केशवकृतः कल्पद्रुकोशः
घनपर्यायतः पुष्पं नीरमर्णश्च वारुणम् । निम्नगं दहनारिः स्यात्सरिलं कर्तुरं मधु ॥११॥ दैव्यं सलं विषं यादःपर्यायेभ्यो ग्रहार्थकम् । ऋतमापो बन्धकं पण न ना वारि कमव्ययम् ॥१२॥ काण्डोऽस्त्रियां घनरसो नरा नारा श्रपि स्त्रियाम् । भूम्नि गावः स्त्रियां भूनि गौः स्त्रियामपि सर्वतः ॥ १३ ॥ इरा जडं जीवनीयं चलादे संवरं कुशम् । शिवं शवं' शरं क्लीबे वा स्त्रियां स्यादुडूरुदुः ॥१४॥ सरः पुंस्यथ सामुद्रं मृगादिवृष्टिजे जले | श्राश्विने जलदैर्मुक्तमम्बु स्वातिविशाखयोः ॥१५॥ तत्र गाङ्गं दिव्यमपि धारं स्यादन्तरिक्षजम् । पार्थिवं पृथिवीजातं तत्कौपं च खनित्रिमम् ॥१६॥
३४५
श्रद्भिदं तु झरोद्भूतं स्वयं जातमथ त्रिषु । स्यादाप्यमम्मयाद्यूह्यं वीचिवींची स्त्रियां पुमान् ॥१७॥ ऊर्मिर्द्वयोस्तरङ्गो ना भङ्गो भङ्गि स्त्रियामियम् । भङ्गी च लहरी वीचा लहरिवोर्म्यपि स्त्रियाम् ॥१८॥ त्रिष्वर्गलं महत्सु द्वौ कल्लोलोल्लकावुभौ । ३ पुढे भेदो वचक्रे भ्रमश्च जलनिर्गमः ॥ १६ ॥
१ शवंB २ अद्भिदं Ck ३ पुटभेदो B
४४