________________
३३८ केशवकृतः कल्पद्रुकोशः
'मध्वर्थमक्षिकापि स्यात्तद्भदाः क्षुद्रवर्वणा । गान्धारी वरदा क्षुद्रा ऋरा सा स्वल्पपिङ्गला ॥१८३॥ अथ स्युः "पुत्तिकाः कृष्णवर्णा मशकसंनिभाः । वृक्षकोटरगाः स्थूलपिण्डिका अथ पातकाः ॥१८॥ बृहत्यो मतिकाः पीता भ्रमर्योल्पा इतोप्यथ । तीक्ष्णा स्या मक्षिकाः पीतवर्णा अर्घाअथापराः॥१८५॥ वर्णतः पीतकपिला गन्धोली वरटा द्वयोः । अथ दालाः पीतवर्णास्ताश्च वृक्षदलाश्रयाः ॥१८६॥ दंशो दुष्टमुखः क्रूरो रुरुत्वकूसंभवः स च । दंशी तज्जातिरल्पा सा क्षुद्रिका वनमक्षिका ॥१८७॥ मशको वज्रतुण्डः स्यात्सूच्यास्यः सूक्ष्ममक्षिकः । नीलाभः स्याद्रणरणो धूमलो रात्रिजागरः ॥१८८॥ झिल्ली चिल्ली चिरी चीरी झिल्लिकाचिल्लिके समे । चीरिका चीरुकी चीरुभिरुका झीरुकापि च ॥१८॥ झिरी झीरी चाथ जर्ती पुनश्चर्मचटी च सा । जिनपत्रा तु जतुका जतूकाप्यथ पूर्णिका ॥१६॥ 'नासाच्छिन्दी च वरटी पराष्णी तैलपायिका। स्याद्वरोल्यथ पत्राण्डसंभवा तु 'बकेरुका ॥१६॥
१ मध्वार्थB २ वर्पणाB ३ भम्भरीलीत्यादि वर्षणान्तमर्धत्रय पुस्तके नास्ति " पुत्रिका:KD पूतिकाःB १ स्यान्मB। ६ झिम्भीB ७ जातीB = नासाच्छिन्नीति स्थात् ६ बकेरुहाB