________________
केशवकृतः कल्पद्रुकोशः
३१५
वृष्यो वंशोऽपि कान्तारः स च पञ्चविधः सितः । कठिनश्वेतकाष्ठेभ्य इतुः काण्डाच्च पत्रकः ॥५८५॥ स्य दीर्घवंशसूत्रीभ्यो नीलपेरुश्च पुण्ड्रके । इक्षुवाही' रसालः स्यादिक्षुवार्द्धरथापरः ||५८ ६ || कर क्षुरिनुयोनी रसालो रसदायकः । कोकिलेनुस्तु कृष्णेक्षुरिक्षुरोप्यथ रक्तके ॥५८७॥ शतपरुः ' सूक्ष्मपत्र उत्कटा मधुरा द्वयोः । ह्रस्वमूलाथ तन्मूले मोरटश्चेक्षुलोचनम् ॥५८८॥ श्रथ चैता महौषध्यः सर्वा एव रसायनाः । मण्डलैः कपिलैश्चित्रा सर्पाभा पञ्च वर्णिनी ॥ ५८६ ॥ पञ्चरत्रिप्रमाणा तु विज्ञेयाऽजगरी बुधैः । निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसंमिता ॥ ५६० ॥ स्वल्पाकारा लोहिताङ्गा' श्वेतकापोतिकोच्यते । द्विर्णिनीमूलभवा " मरुणां कृष्णपिङ्गलाम् ॥५६१॥ द्विरत्नमात्रां जानीयाद्गोनसीं गानसाकृतिम् । सक्षारां रोमां मृद्वीं रसेनेतुरसोपमाम् ॥५६२॥ एवंरूपरसां चापि कृष्णकापोतिमादिशेत् । कृष्णसर्पस्य रूपेण " वाराही कन्दसंभवाम् ||५६३ ॥
१ वादीC जादी B २ परः Ke ३ उत्काटा B ४ लोचनः B ५ रसायन: B ६ लोहिताङ्गी B ७ भावा तरुणीB ८ वाराहीमिति स्यात् ।