________________
केशवकृतः कल्पद्रुकोशः ३१३ वितुन्ना चारटी वीरा दृढपादी हिमालया। विश्वपर्यथ गोरक्षी पञ्चपर्णी विचित्रला ॥५६७॥ (सा) स्यात्सुदीर्घसर्पेभ्यो दण्डी गन्धाधिकाप्यथ । प्रसारिणी क्रोष्टुपुच्छी गोलोमीजा च धूमिका ॥५६८॥ दुग्धपेजी पयः फेनी फेनदुग्धा पयस्विनी । भूतारी प्राणकेतुनी गोजापर्यथ चुक्रिका ॥५६६॥ चुकाम्लिका च चाङ्गेरी शाखाम्लाप्यमपत्रिका । शमीपत्रा रक्तपादी स्पृक्का खदिरपुन्यपि ॥५७०॥ संकोचनी नमस्कारी समङ्गा च प्रसारिणी। स्पर्शलज्जापि लजालुः स्याल्लज्जा' लजरीत्यपि ॥५७१॥ गण्डमाला सप्तपर्णी कन्दर्यञ्जलिकारिका । स्यादत्रशोधिनी चापि स्वगुप्ताथ बृहद्दला ॥५७२॥ अल्पनुपान्याप्यपरा त्रिपर्णी हंसपादिका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥५७३॥ गोधापदी हयात्तु कातराथ पुनर्नवा । स्त्रियां पुंसि कठिल्लः स्याद्विशाखः शिखिवाटिका ॥५७४॥ दीर्घपत्रा च वर्षाभूः पृथ्वी रक्ताऽपरा पुनः । वर्षाभूः पत्रिका काण्डा रक्तान्मण्डलपत्रिका ॥५७५॥
च चित्रलाB २ सा इत्ये कमतरंkC पुस्तकयो स्ति । स्यात्सुदीर्घभुजङ्ग भ्योB ३ सर्वेभ्यो ४ दण्डोB५ लजिनीB ६ गण्डमालीB ७ कदरीत्यन्यत्र - रक्तपरा: