________________
३०६ केशवकृतः कल्पद्रुकोशः पितृप्रियो भृङ्गराजोङ्गारकः केशवर्द्धनः । अन्यो नीलो नीलपुष्पः श्यामलश्चाथ लोमशः ॥५०७॥ काकजचा नदी कान्ता दासी काकाह्वया पुनः । पारावतपदी चाथ चञ्चुश्चञ्चूश्च विजुला' ॥५०८॥ चित्रपुत्री च कलभी सुशाखः क्षेत्रसंभवः । चंचुरश्चंचुपत्रोऽथ विषारिर्दीर्घपत्रिका ॥५०॥ दिव्यगन्धा महासुभ्यां बृहतश्चंचुरित्यथ । त्वक्सारभेदिनी जुद्रचंचुः शुनकचञ्चुका ॥१०॥ सिन्दुवारः श्वेतपुष्पः सिन्दूकः स्थिरसाधनः । स्त्रीपुंसोः सुरसो नेता सिद्धोन्या नीलसिन्दुका ॥११॥ सिन्दुकच्छपिका भूतकेशी द्रोणी च नीलिका । निमुण्डिरपि निर्गुण्डी द्रोणी ना सिन्दुवारितः ॥५१२॥ शिफालिकापि शुक्लाङ्गी सुवहा चापराजिता । वातारिविजया भूतकेशस्य क्षेत्रसंभवः ॥५१३॥ द्वयोर्भिण्डश्चतुष्पत्र श्राम्लपत्रश्चतुष्पदः। करपणों वृत्तबीजः शुशाखश्चाथ पुत्रदा ॥५१४॥ गर्भदात्री प्राणिमाता तक्राहा तक्रभक्षका । पञ्चाङ्गलाशिकामा स्यात्स्वर्गुली हेमपुष्पिका ॥५१५॥
लोमशाB २ कण्टा ३ चसाB ४ वंजुला ५ पत्रीB ६ पिB ७ पुष्पाB ८ वारक:B केश्यथेति स्यात् ।