________________
.
.
उनी महाटिका।
३०० केशवकृतः कल्पद्रुकोशः डोलरी वनवृन्ताकी बहुपुत्री महोटिका । अथान्या बृहती पुत्रप्रदा बहुफला च सा ॥४५५॥ 'रुषाङ्गा जविका पीततण्डुला धवलाऽपरा । सा तु श्वेतबृहत्यर्थाऽथाप्यन्या कण्टकारिका ॥४५६॥ क्षुद्रकण्टा कण्टकिनी दुःस्पर्शा द्राविणी पुनः । क्षुद्रा व्याघ्री क्षुद्रफला निदिग्ध्यथ सितोत्तरा ॥४५७॥ कण्टारिका क्षेत्रदूती लक्ष्मणा कपटेश्वरी । स्यान्निःस्नेहफला रास्ना नाकुली च प्रियंकरी ॥४५८॥ गर्दभी चन्द्रिका रामा क्लिन्ना सैव महौषधी। सा चोक्ता कटुवार्ताकी पृश्निपर्णी तु मेखला ॥४५६॥ शृगालविन्ना कलशी धावनी' च महागुहा । लालिका सिंहपुच्छी पृथक्पर्णी शृगालिक ॥४६०॥ दीर्घपर्णी चित्रपर्णी श्वपुच्छा चाथ गोचरः। महाङ्गः कण्टकी बालदंष्ट्रः स्याद्भद्रकण्टकः ॥४६९॥ दुश्चंक्रमः श्वदंष्टः स्याद्गोकण्टोऽपि चराङ्गकः । त्रिकण्टकस्तु चरकः षडङ्गो बहुकण्टकः ॥४६२॥ पलंकषः कण्टफलो वनशृङ्गाटकः करी । क्षुद्रक्षुरश्वेचुगन्धः स्यादुकण्टो यवासकः ॥४६३॥
सङ्गिा B २ दुःस्पर्शी द्राविणी च साB ३ सितेतराB ४ पृष्ठपर्णी तु मौखलाB ५ धमनीCk ६ पत्री शृगालिनीB ७ कण्टका B थ वासकः