________________
केशवकृतः कल्पद्रुकोशः २६३ शिववल्ली तु शिवजा लिङ्गिनी शिववल्लिका। बहुपुत्री' चित्रफला चण्डाऽयस्तम्भिनीश्वरी ॥३६२॥ लैङ्गी स्वयंभूश्चण्डाली कृतच्छिद्रा चु जालिनी । मृदङ्ग वल्लिनी क्ष्वेडा सैवोक्ता कृतवेधना ॥३६३॥ सैषा सुतिक्तघण्टाली कोशातक्यथ मर्कटी। शूकशिम्बिःशूकशिम्बी शूकशिम्बा च वानरी ॥३६४॥ शूकसिम्बिः शूकसिम्बी शूकसिम्बा जडाऽजहा । शुकशिम्बिः शुकशिम्बी शुकशिम्बा ततः पुनः ॥३६५॥ शुकसिम्बिः शुकसिम्बी शुकसिम्बा पुनश्च सा। शूकपिण्डिः शूकपिण्डी शूकपिण्डा ततः परा ॥३६६॥ शुकपिण्डिः शुकपिण्डी शुकपिण्डा च सा भवेत् । श्रात्मगुप्ता कपेः कच्छूः कच्छुः स्यादुरभिग्रहा ॥३६७॥ कपिरोमलता गुप्ता दुःस्पर्शा कच्छुराऽजया । प्रावृषेण्या च सैव स्याच्छुन्दरी गुरुरापभी ॥३६॥ लागली कुण्डली चण्डी केशरोमा महर्षभी। तीणी वराही रोमालुः स्याच्छिम्बी वनसूकरी ॥३६॥ रोमवल्ली तिक्तबीजा कटुतुम्बी बृहत्फला । राजपुत्री कटुफला तिक्तबीजा च तुम्ब्यथ ॥४००॥
१ पत्रीB २ चण्डीB ३ श्वराB ४ तुCk५ वलिनीCk ६ तत्पराB . कन्द(ण्ड)री गुरुरार्षभाB ८ चण्डाB