________________
२५४ केशवकृतः कल्पद्रुकोशः पुरुकालो वसन्तद्रुः सच पञ्चविधः स्मृतः । कोशाम्रस्तु घनस्कन्धो वनाम्रो जन्तुपादपः ॥४६॥ क्षुद्राम्रोऽपि च रक्ताम्रो लाक्षा'वृक्षश्च रक्तकः । बहुपूर्वस्तु मध्वाम्रः शीतलाम्रो मुनिश्च सः ॥५०॥ मदनेच्छाफलश्चक्रतलाम्रोऽपि वनेज्यकः । अथ कामशरः कामवल्लभो माधवद्रुमः ॥५१॥ अम्लफलः सीधुरसो मोदः स्यान्मन्मथालयः । मध्वासवः सुमनसः पिकरागो नृपप्रियः ॥५२॥ प्रियाम्बुरथ राजाम्रो राजपर्यायतः फलः । स्मराम्रो मधुरोऽथ स्यान्महाराजफलस्तु सः ॥५३॥ कामायुधो राजपुत्रः कङ्कः कामफलोऽपि च । श्राम्रः स्थूलान्महाराजात् कपित्थार्थोऽपिनीलतः॥५४॥ तत्पर्यायफलार्थं स्यात्पुण्डरीकं च तत्समम् । स्त्रियां जम्बूमहास्कन्धा राजार्हाऽऽमोदमोदिनी ॥५५॥ शुकप्रिया राजफला श्यामला सुरभिच्छदा। अथान्या स्याद्राजजम्बूः स्वर्णमाता महाफला ॥५६॥ पिकप्रिया महाजम्बूमहानीलाप्यथापरा। काकादिष्टफला जम्बूभृङ्गेष्टास्याद्वनप्रिया । ॥७॥
१ म्रोपिचB २ अाम्रः स्थूलात्कपित्थार्थो महाराजोऽपि नीलतः KC