________________
२४४ केशवकृतः कल्पद्रुकोशः निष्ठीवनं च निष्ठेवो निष्ठयूतिश्च स्त्रियामियम् । जूतिः स्याजवनेथापि तद्वदेवावसानके ॥८३॥ सातिघ्रतिवरेऽथैवमुदजः प्रेरणं पशोः। अकरणिस्त्वजीवनिश्चाभवनिरजननिः ॥४॥ शब्दा इत्यादयः प्रायो विज्ञेयाः 'क्षेपणार्थकाः । गोत्रान्तेभ्यस्तस्य वृन्दमेवमपिगवादिकम् ॥८५॥
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् । मानवानां तु मानव्यं सहायानां सहायता ॥८६॥ हल्या हलानां ब्राह्मण्यं ब्राह्मणानामथापि च । वाडवानां तु वाडव्यं पर्शनां पार्श्वमित्यपि ॥८७॥ पृष्ठानामपि पृष्ठयं स्यात्खलानां खलिनी स्त्रियाम् । खल्या मानुष्यकं नृणं ग्रामता जनतापि च ॥८॥ धूम्या पाश्या तथा गण्या' गव्या साहस्रमित्यपि । कारीषं वार्मणं चाथाथवर्णं चापि वार्द्धकम् ॥८॥ चचुंराक' धनुकृता ववहारो वहारणम् । युद्धस्य वारणे स्यात्तु श्च्योतः प्राधार इत्ययम् ॥१०॥ श्राज्यादिक्षरणे यत्तु कुङ्कमादिविमर्दनम् । तस्मिन्परिमलः स्यात्तु प्रावदीकरणपहिः ॥१॥
सपणाB२ गल्या गव्या इति पाठः स्यात् ३ वार्षणं ४ धेनूनां धेनुकं तावदवहारो ५ श्रोतःB ६ प्राद्वन्दीकरणे अहिरिति पाठः स्यात् ।