________________
केशवकृतः कल्पद्रुकोशः स्यान्मर्दनं संवहनं विनाशः स्याददर्शनम् । संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥६५॥ लवो निलावो लवने निः पावः पवनं पवः । स्यात् प्रस्तावस्त्ववसरः प्रश्रयप्रणयौ समौ ॥६६॥ धीशक्तिर्विक्रमो' दुर्गसंचरः संक्रमोऽस्त्रियाम् । प्रत्युत्क्रमः प्रयोगार्थः स्यात्प्रक्रम उपक्रमः ॥६७॥ स्यात्प्रत्यादानमुद्धात प्रारम्भः संभ्रमस्त्वरा । अनुक्रमः क्रमोथ स्यात् कान्तोधिक्रम अाक्रमे ॥६८॥ श्रारोहणं प्रतिक्रमो व्युत्क्रमस्तु क्रमोत्क्रमः । हीनातिरिक्तता वाक्यहीने नीवाक इत्यपि ॥६६॥ निवाकश्च प्रवाकश्च संनिधिः संनिकर्षणम् । प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् ॥७॥ स्याच्चावनयनं चोपलम्भस्त्वनुभवोऽपि च । विप्रलम्भो विप्रयोगः समालम्भो विलेपने ॥७१॥ विश्रावस्तु प्रतिख्यातिविलम्भस्त्वतिसर्जनम् । निपाठो निपठः पाठेऽवेक्षा तु प्रतिजागरः ॥७२॥ तेम तेमः समुदने स्यादादीनव श्रास्रवः । केशेथ मेलके मेलः संगमोऽथावलोकनम् ॥७३॥
१ निग्रहाB२ संक्रमKC ३ माचराB ४ कामोB ५ क्रमाक्रमःB ६ प्रवामश्चB ७ तपोRC नयो ८ समुन्दने ६ सङ्गःB