________________
केशवकृतः कल्पद्रुकोशः
इतरस्त्वस्त्वदेकः स्यादन्यार्थे ऽन्यतरत्पुनः । द्वन्द्वभिन्नेप्यथेोच्चण्डमुत्ताल ' मविलालितम् ॥१४३॥
२३०
निरर्गलमबाधं स्यात्प्रसव्यं प्रतिकूलकम् । अपसव्यमपष्ठु स्यादपष्ठुलमपि कचित् ॥१४४॥ श्रपसव्यं शरीरस्य दक्षिणं चाथ संकटम् । संबाधः पुंसि कलिलं गहनं चापि संकुले || १४५ || संकीर्णाकीर्ण चाथ तते विस्तृत विस्तृते । श्रन्तर्गतं विस्मृतं स्यात् प्राप्तं प्रणिहितं च तत् ॥१४६॥ वेतिप्रेङ्खताधूतविधुतानि प्रकम्पितम् ।
धुतं चाथ निष्ट्यूतं तं नुन्नं तथास्तवत् ॥ १४७॥ ईरितः क्षिप्त विद्धः स्यात्परीष्टं तु वेष्टितम् । परिविष्टं परिक्षिप्तं " निवृत्तं । परिखादिना ॥ १४८ ॥ वेष्टिते मुष्टितं तु स्यान्मुषितं च बलोद्धते । अच्छिन्नमुद्धतं तु स्यादवबर्हितमित्यपि ॥ १४६ ॥ उत्पाटितं प्रवृद्धे तु प्रसृतं शाततेजिते ।
" न्यस्तं निसृष्टं निर्दिष्टं पूजितोपचिते समे ॥ १५० ॥
७.
गूढं गुप्तं गुण्ठितं च मूषितं चाप्यथ द्रुतम् । उदीर्ण स्यादथेोद्गीर्ण उद्यते काचितं पुनः ॥ १५१॥
१ मविलम्बितम् २ विस्मृतेB ३ नुन्नमथा B ४ निर्वतं B ५ मुषितं तु स्यान्मूषितं B ६ उत्पादितंKC ७ न्यस्ते पूजितापचिते इति पाठः स्यात् । भूषितं