________________
केशवकृतः कल्पद्रुकोशः २२३ श्रात्तगन्धोभिभूतोरि'त्याजिताहंकृतिश्च सः। दण्डितो दापितश्चापि साधितोऽथ निराकृतः ॥७॥ प्रत्याख्यातः प्रतिक्षिप्तः पत्यादिष्टोपविद्धवत् । निरस्तश्चाप्यधिक्षिप्तस्तुल्यौ विक्लवविह्वलौ ॥५०॥ प्रतिबद्धः प्रतिहतो हतश्चापि मनोहतः। नद्धे बद्धो निगडितः संयतः कीलितः सितः ॥१॥
आलानितो यन्त्रितोऽपि स्यात्संदानित इत्यपि । स्थिरेऽ संकसुकश्चाथ विहस्तव्याकुलौ समौ ॥२॥ ब्यग्रोऽथापि पुनः स स्यात्समुत्पिञ्जश्च पिञ्जलः । भृशाकुलोपिञ्जलौ च क्षारिताक्षारितौ पुनः ॥८॥ अभिशस्तेऽथोपरक्तो व्यसना िवधोद्यते । संनद्ध आततायी स्यात् कशाहः कश्य इत्यथ ॥४॥ श्रापन्नश्रापत्प्राप्तोथ प्रत्याख्याते पुनः पुनः । प्रतिशिष्टो नारकीटः स्वदत्ताशाविहन्तरि ॥८॥ द्वष्यस्त्वतिगतो वध्यः शीर्षच्छेद्यो विषेण यः। वध्यो विष्यो मुसल्यस्तु यो वध्यो मुसलेन च ॥८६॥ शिश्विदानः कृष्णकर्मा निकृतस्त्वनृजुः शठः । दोषैकटक पुरोभागी द्विजिह्वो मत्सरी खलः ॥७॥
, पिस्माज्जिता २ ऽसंकुसुकB ३ विधोB ४ वारकीट इत्यभिधानन्तरेषु पाठः