________________
२०२
केशवकृतः कल्पद्रुकोशः
मधुशेषं पीतरागं मधूत् मक्षिकामलः ।
पि स्निग्धं मधुलको मधुशेषोऽपि न स्त्रियाम् ॥ ६२२॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । षष्ठः प्रकाण्डो वैश्याख्यः' सम्यक् सिद्धिमुपागतः ॥ ६२३॥ इति वैश्यप्रकाण्ड:
शून्यस्कन्धातको शुद्धे यत्रो दासो महत्तरः । ग्रामकूटोऽवरवर्णो वृषलश्च जघन्यजः ॥ १ ॥ श्राचण्डालं तु संकीर्णा अनुलोमविलोमजाः । त्रिष्वङ्कपाशन्यायेन नखस्था अनुलोमजाः ॥२॥ विलोमजास्तु तावन्त' ऐक्येन * नवयास्तु ते । ब्रह्माज्ञया कर्मकरा विहिता विश्वकर्मणा ॥३॥ एषां परस्परोत्पत्त्या बहुभिर्भूरियं वृता । श्रनूढायां ब्राह्मणस्य चत्रिये | दरसंभवः ॥४॥ पुत्रो मूर्द्धावसिक्ताख्योम्बष्ठो वैश्योदरोद्भवः । शूद्रोदर्यः पारशवः क्षत्रियस्य विशोदरात् ॥५॥ महिष्यः स्यात्तु शूद्रायामुग्रपुत्रस्ततः परम् । वैश्यात् शूद्रोदराज्जातः करणश्चानुलोमजाः ॥६॥ षडेते षड् विलेामोत्थाः क्षत्रियाद्ब्राह्मणीभवः । सूतो वैश्या ब्राह्मणीजः स्याद्वैदेहिक इत्यपि ॥७॥
१ वैश्यानांB २ शूद्रोB ३ स्वस्थान B खरथा ७२० इति पाठः स्यात्
४ तावन्त इत्यस्मात्परं पुस्तके ७२० अङ्को दृश्यते ५ नवचपा B