________________
१७० केशवकृतः कल्पद्रुकोशः
पूगीफलं वल्लगुणं' होसं पत्तनजं च तत् । नागपर्यायवल्ल्यर्था ताम्बूली भक्षपत्रिका ॥३३३॥ सैव सप्तशिरा पर्णलता स्यादथ तद्भिदः । श्रीवाटी चामुवाटी च पत्रसी च गुहागरी ॥३३४॥ श्रमसारा मालवोत्था मागधी होसणीति च । स्यादन्द्र पुष्कलीचाथ चूर्णममुं सुधार्थकम् ॥३३५॥ कुटार्जुनकरञ्जार्क शिलास्फटिकशुक्तिजम् । स्यात् खादिरस्तु खदिरसारः क्षोदोपि रङ्गदः ॥३३६॥ अथ क्वाथस्तु खदिररसोरङ्गः कषायकः । वाच्यलिङ्गस्तु सुरभि रामोदी मुखवासनः ॥३३७॥ शुभवासनश्चापि पुन गुरुवासन इत्यपि । ताम्बूलं मिलितैरेभिर्वीटकं त्रिष्वथापरम् ॥३३८॥ फलकन्दकरीरादिलवणेन विमिश्रितम् । हरिद्राराजिका कल्ककटुतैलसमन्वितम् ॥३३६॥ तत्संधितं तु संधानमास्थानं वस्तुनि त्रिषु । शलाटुभिः फलैः शुष्कर्मिश्रितैर्मधुरादिभिः ॥३४॥ प्रयुक्तं स्यादिदमपि संधान मुपदंशकम् । कटुबीजा च वैदेही कोला दन्तफलोषणा ॥३४१॥
१ होसपनजं तथा २ दिन्द्र ३ कुटार्जुनेत्यधैं सर्वेष्वादशेषु शुभवासनहस्यायर्धानन्तरं दृश्यते ४ रामोदो ५ शुम्रः ६ गरुB ७ कनिष्वधेत्यादि कल्ककटु पर्यन्तंB पुस्तके न दृश्यते ८ हरिद्रत्यावर्षद्वयं पुस्तके नास्ति १ इंदमधुर पुस्तके नास्ति १० मुपदंशकःB