________________
१४२ केशवकृतः कल्पद्रुकोशः विकसो वापि गोधूमसंभवे समिता स्त्रियाम् । स्फोटे गोधूमजे स्थूली कणिका यावनालजे ॥४॥ चणोत्थे वेसवारो ना पिष्टं माषभवे न ना । सर्व स्याच्चाक्रिकं चूर्णं शिलापिष्टे तु पिष्टिका ॥८॥ त्रिष्वम्बुना विना पक्को भ्रष्टः पुंसि भरूजकः । भरुजः क्लेदितभ्रष्ट उद्दषः परिवाटिका ॥८६॥ खदिका स्त्र्यथ धानानां श्लक्ष्णचूर्णेषु सक्तवः । तत्र मन्थो घृतमधुद्राक्षेत्रसमिश्रितः ॥७॥ तस्मिञ्जलविमिश्रे तु चिकणो मसृणोऽपि च । दना संमिश्रितं तत्र करम्भः स्यादतः परम् ॥८॥ शिंबिधान्यं जलक्लिन्न साङ्करं मणिरूढकम् । त्रिषु रिद्धं त्वावसितमृद्धं वृद्धं समृद्धकम् ॥६॥ प्रणीतमुपसम्पन्न प्रशस्तं च सुसंस्कृतम् । धान्ये बृहति संपन्नमयोगं मुसलोऽस्त्रियाम् ॥१०॥ मुशलोप्यथ कण्डन्यामुदुल्लूभ्यां खलस्त्रिषु । स्यात् क्लीबे पवनं शूर्प सूर्प प्रस्फोटनं पुनः ॥११॥ त्रिषु वस्तुनि तत्पूते शोधितं नित्सीकृतम् । फुल्लफालस्तु तद्वाते स्त्रियां क्लीबे तु चालनी ॥२॥
, स्थलीB २ भ्राड्रपक्के भ्रष्टा ३ भहतः क्वेदितो ॥ विदूषः परिवादिकाः परिकार