________________
१३८ केशवकृतः कल्पद्रुकोशः रक्तकुस्तुंवरो रक्ते'तूबरो वर इत्यपि । बृहती काण्डकणिशा श्वेतरक्तविभेदतः ॥४॥ राजपर्यायजूर्णाह्वा वाजरिश्चाथ वर्चटः । मञ्चूको मकरो मल्लः क्षुडोस्मिन्मणि की स्त्रियाम् ॥५०॥ अस्त्री कणिशकिंसारु सस्यशूकं नपुंसकम् । अथ स्याच्छिम्बिजं मुद्गः सूपमुख्यो रसोत्तमः ॥५१॥ भुक्तिप्रदो हयानन्दो भूफलस्तत्र चासिते । वासन्तेऽपि च लोभ्यः स्यात्सुराष्ट्रोत्थोथ पीतके ॥२॥ प्रवेलशारदजया नीले हरितशाखिको । वसुर्वनाखुःखण्डीरो हरिमन्थश्च धूसरः ॥५३॥ वनजे तु कुलीनः स्यादुरकेऽपि निगूढकः । माषो बली बीजवरः कामार्थश्च पुरीषणः ॥५४॥ वृषाकरो धान्यवीरः कुरुविन्दोऽपि मांसलः । पित्र्यो' बलाढ्यः काचराजपदात् माषो परो लघुः ॥५५॥ चणस्तु हरिमन्थः स्यात्कञ्चुकी कृष्णकञ्चुकः । बालभोज्यो वाजिभक्ष्यः सुगन्धस्त्रिविधश्च सः ॥५६॥ धूसरः श्वेतकृष्णश्च मकुष्टस्तु'मयुष्टकः । कृमीरेलको वनमुद्गो वल्लीमुद्गोऽमृतोऽपि च ॥५७॥
१ तूम्बरी २ चट:B चर्चटः ३ जुद्रो दा ४ काB५ रूB ६ ब्युः ७ बुक ८ द्वरको इति पाठः स्यात् ६ तनःB १० बलानः। ११ मपुरकःB २२ कृमीणको