________________
१३४
केशवकृतः कल्पवुकोशः
स्याद्योक्त योत्रमाबन्धो हल्यं' त्रिषु हलिः स्त्रियाम् । श्रपि नित्या निरीपं च कालोऽस्त्री कूटकं कृषः ॥१३॥ कृषिको ना फलं क्लीबे न स्त्रियां हललाङ्गले । सीरो हालश्च भूम्यर्थदारणोऽथ स्त्रियामिमे ॥ १४ ॥ ईशेपे सीरदण्डो ना सीता शीतास्य पद्धतौ । सीरपर्यायपद्यर्था निरीशं कूटकं च षणु ॥१५॥ कुशी कोशी लोहफले तदाधारे तु चवंढम् ' । rat श्रेणिः खलो धान्यपीडने पशुसंततेः ॥ १६॥ खलमध्यगते की 'मेढिथिरुभे स्त्रियै । अथ स्याद्विविधं धान्यं शुकशिम्बिसमुद्भवम् ॥१७॥ तत्र शूकेषु प्रथमे शालयः पुंस्यमी पुनः । रक्तशालिर्महाशालिः कलमः शकुनाहृतः ॥ १८॥ दीर्घशुको रोधक स्तूर्णकः शङ्खमौक्तिकौ । लाङ्गलः कर्दमा लोहवाला महिषमस्तकः ॥१६॥ पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदा गौरसारिवौ । "शारामुखः शीतभीरुस्तपनीयः सुगन्धिकः ॥२०॥ पुष्पाण्डको दीर्घताला महादूषकदूषकौ । पतङ्गकः काञ्चनको हायनोप्यथ षष्टिकाः ॥२१॥
१२
१ हल्यस्त्रिषुB २ निरोपंB ३ पर्यार्था ४ निशेषं B ५ चवेदम् B ६ मेठि B म स्तूर्णः शंखक B & कंB १० शीरा B ११ तपनी चB १२ काचनको B
● क्षेत्र B