________________
१३२ केशवकृतः कल्पद्रुकोशः पुरुषायुषकं यावदायुः स्याद्विगुणं ततः। द्वयायुषं त्रिगुणं तद्वत्त्र्यायुषं च तिरायुषम् ॥३८६॥ जीवोऽसुधारणं चाथ क्लीबे द्वे आयुरायुषी। "पुंसि जीवितकालः स्याजीवातुर्जीवनौषधम् ॥३८७॥ कल्पद्रौ केशवकृते फलिते नामभिः किल ।। भूमिस्कन्धे क्षत्रकाण्डः पञ्चमः सिद्धिमागतः ॥३८८॥
इति क्षत्रिय प्रकाण्डः ।
विशो भूमिस्पृशो वैश्या ऊरुपर्यायजार्थकाः। . श्रर्या उरव्या गोरक्षाकृषिवाणिज्यजीविनः ॥१॥ स्त्रियां कृषिः स्याद्वाणिज्या न ना सत्यानृतं पुनः । तृष्णा धनपिशाची स्याद्वार उद्धारमस्त्रियाम् ॥२॥ . भृणं प्रमात्यं क्लीबे थ कुसीदं वृद्धिजीविका । ®कुमुदो वाच्यलिङ्गः स्यात् कुमुदं च नपुंसकम् ॥३॥
... आयुर्जीवित B २ क्षत्रियकाण्डः B ३ गोरक्षाः B0 ४ उद्वार र ५ प्रमा# B * कुसुदो वाच्यलिङ्गः स्यात् कुसुदं चेति पाठः स्यात् ।