________________
केशवकृतः कल्पडुकोशः
१११
किशोरोऽल्पवयस्कोऽश्वो रथ्यो वोढा, रथस्य यः । पृष्ठ्यः स्थूरी प्रसूरषां वाम्यश्वा वडवार्वती ॥१६६॥ गणे तु वाडवं तासां दुर्विनीतस्तु सूकलः । कश्यः कशार्हो हृद्वावर्त्ती श्रीवृक्षकी हयः ॥२००॥ पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः । पुच्छोरः खुर'पुच्छास्यैः सितैः स्यादष्टमङ्गलः ॥२०१॥ सिते तु कर्ककेका खांगाहः श्वेतपिङ्गले । पीयूषवर्णः सेराहः पीते तु हरिमा ह्यः ॥ २०२॥ कृष्णवर्णस्तु खुङ्गाहः " कियाहो लोहितो हयः ।
नीला नीलकेपि स्यान्निर्यूहः कपिलो हयः ॥ २०३॥ वोल्लारश्चायमेव स्यात्पाण्डुकेशरवालधिः । उराहस्तु मनाकपाण्डुः कृष्णवर्णो भवेद्यदि ॥ २०४॥ सुरू गर्दा वखानस्तु पाटलः । कुलाहस्तु मनाकपीतः कृष्णः स्याद्यदिजानुनि ॥ २०५ ॥ उकनाहः पीतरक्तच्छायः स एव तु क्वचित् । कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः ॥ २०६ ॥ हरितः पीतहरितच्छायः स्यात्स च हालकः । पुंगलः सितकाचाभो हलाहश्चित्रितो हयः ॥ २०७॥
१ पुच्छाKCB पृष्ठा इति पाठस्तूचितः २ हरियो BK ३ कृष्णवर्णइत्यारभ्य मनापाण्डुरित्येतदन्तं पुस्तके नास्ति ४ किंथाहो B ५ मे C KC
६