________________
केशवकृतः कल्पद्रुकोशः १०६ अष्ठीवतोरधिष्ठाने संदानं पुनपुंसकम् । विधानं गजभक्ष्ये स्यात् क्लीबे चैव विधा स्त्रियाम् ॥१८०॥ मेण्ठो मेठो निषादी स्यात् सादिः सादी निषाद्यपि । दृश्यते'पाण्डुरो यस्तु केशे रोम्णि च बालधौ ॥१८१॥ कणे च नेत्रयोश्चैव स स्यादैरावतान्वयः। . अध्वक्षमः सारसदृक् क्षमी बुद्धिविशारदः ॥१८२॥ अजरोमा स्थूलशीर्षः पुण्डरीकान्वयो गजः। स्तब्धकर्णः सुदेहश्च कृष्णवर्णः कृशोदरः ॥१८३॥ स्थूलविन्दुर्धनुवंशः पुष्पदन्तान्वयो गजः । अग्निवर्णः सुवर्णाक्षो वेगवाञ्जललम्पटः ॥१८४॥ श्रायतो विस्तृतोत्यर्थ वामनान्वयजः करी । प्रचण्डकुसुमच्छायः कपोतनयनः क्षमः ॥१८५॥ मेधावी तनुरोमा च सुप्रतीकान्वयोद्भवः । स्निग्धवालधिदन्तो यः श्वेतविन्दुकरान्वितः ॥१८६॥ पेचकल्पः स्थूलकलः सार्वभौमान्वयो गजः । रौद्रो लघुशिराह स्वश्वेतविन्दुसमन्वितः ॥१८७॥ पाटलापुष्पनयनः स भवेदञ्जनान्वयः । कुम्भस्थूलतनुः स्निग्धलोललोहितलोचनः ॥१८८॥
१ पाण्डरोङ्ग पाण्डुरोगैB २ युद्धम् ३ कुब्जB ४ प्राण्ड'B हस्त्र...... स्तमश्चित: