________________
केशवकृतः कल्पद्रुकोशः १०७ 'ईषार्थदन्तपर्याय उपपर्यायदन्तके। स्त्रियां समूह घटना घटा यूथं नपुंसकम् ॥१६२॥ मदो दानं प्रवृत्तिश्च वमथुः करसीकरः। करिनासा तु हस्तार्थः शुण्डा शुण्डार इत्ययम् ॥१६३॥ अस्याग्रं पुष्करं क्लीबेऽङ्गुलं स्यात्तस्य कर्णिका । विषाणावस्त्रियां पुंसि दन्तौ ना स्कन्ध श्रासनम् ॥१६४॥ कर्णमूलं चूडिका स्यादीषीका त्वतिकूटकम् । अपाङ्गदेशो निर्याणं गण्डस्तु करठः कठः ॥१६॥ कट'कोप्यथ कुम्भ्यक्षि कूटे स्यादिषीकेषिका । अवग्रहो ललाट स्याद्विदुः पुंस्युभयान्तरम् ॥१६६॥ कुम्भौ तु शिरसःपिण्डौ तयोर्मध्ये पिचुः पुमान् । घातकुम्भस्तयोः संधिरारक्षस्तु ततोऽप्यधः ॥१६७॥ वाहित्थं तदधोदेशः प्रतिमानमथास्त्रियाम् । . गात्रं तु करिणः पूर्वजवाद्यवयवे न ना ॥१६॥ अपरावरे तु पश्चाजवाद्यवयवे न ना । श्रारालं पुच्छमूलस्योपान्ते स्यात्पेचकः पुमान् ॥१६६॥ पार्वतः पक्षभागः स्यात्पद्मार्थ बिन्दुजालकम् । मदयोगविधानं तु ब्यस्तारमथ तल्पनम् ॥१७॥
B ६ द्विन्दुः ० ७ पूर्व B
१ इषार्थ B २ दीपिका B ३ का B ४ कुटे B ५ विस्तार B
अक्षिकूटकं कुतः पुनरुक्तमिति नावगम्यते ।