________________
केशवकृतः कल्पद्रुकोशः
निलूनः करटी नाग इभः स्तम्बेरमो गजः । करी मतङ्गजः पद्मी 'शूर्पकर्णो लतारतः ' ॥१४४॥ पिण्डपादः पुष्करी स्याच्छुण्डारी कज इत्यपि । विलोमरसनार्थः स्यादुद्वेर्दन्तार्थविषाणकः ॥ १४५॥ द्वयोः करेणुर्वेतण्डः पेचकी पुष्करी जी । जलाकांक्षो महाकायोऽप्रस्वेदः सूचिकाधरः ॥१४६॥ शुण्डालः पिचिलश्चापि ध्वजोऽस्त्री चासुरः कपिः । गम्भीरवेदी च करी करिणी धेनुका वशा ॥ १४७॥ करेणुश्च करेणूश्च रेणुका च करेणुका । कणेरुश्च गणेरुश्च स्त्रियामथ च तद्भिदः ॥१४८॥ पञ्चवर्षो गजे । बालः पोतस्तु दशवार्षिकः । विक्को दिक्कोपि विंशाब्दस्त्रिंशाब्दः कलभोऽस्त्रियाम् ॥१४६ षष्टिवर्षो युवार्थः स्याच्छुण्डारोऽपि मतः स च । स्यादशीतेस्तु वृद्धोऽथ यगन्धाघ्राणतोऽपरे ॥ १५० ॥ न तिष्ठन्ति गजाः सस्याद्गन्धहस्ती ततः पुनः । चतुर्विधा गजा भद्रो मन्द्रो मिश्रो मृगोऽपि च ॥ १५१ ॥ एषामाकरजा भेदा विज्ञेया बहवो बुधैः । गङ्गासागरहिमाद्रिप्रयागाणां च मध्यतः ॥ १५२॥
१०५
१ सू २ रते: B ३ण्ड ४ ली ५ बालः पोरुस्तुदशK पुस्तके नास्ति ६ विष्को B
१४