________________
केशवकृतः कल्पद्रुकोशः १७ तस्यैव मुद्रणं मुद्रा स्त्रियां प्रत्ययकारिणी।। तेषां निबन्धनार्थं तु काचस्थानं च न द्वयोः ॥७२॥ अपि स्यात्कलमस्थानपर्याया मसिधानिका । उत्तमर्णाधमर्णादिव्यवहारार्थपत्रके' ॥७३॥ द्रव्याङ्गबन्धनं तत्स्यात्तेषां भेदा अनेकशः। लिखिताक्षरविन्यासे लिपिलिविरुभे स्त्रियौ ॥७॥ लिपी लिवी च तुल्ये स्तो लिखनीयं तु लेखितम्। लेखनीयं च लिखितं लिख्यं लेख्यममूनि च ॥७॥ त्रिषु द्रव्येऽथ लिखनं लेखनं लेख इत्यपि । पुस्तकं त्रिषु पुस्तं स्त्री क्लीबे तु शरयन्त्रकम् ॥७६॥ पुस्तकस्थापनस्थाने प्रोथवैदेशिकौ समौ । स्यात्संदेशहरो दूतो दौत्य भावे च कर्मणि ॥७७॥ श्रध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । यातुर्गन्तुरथो हारिः पथिकानां च संहतौ ॥ ७८॥ स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । सप्तैवाङ्गान्यमूनि स्युरथ पौरास्तु पुंस्यमी ॥ ७६ ॥ श्रेणिः स्त्रियां च प्रकृतिढे इमे चाथ षड्गुणाः । संधिर्ना विग्रहो यानमासनं द्वैध श्राश्रयः ॥ ८० ॥
७६
१ उत्तमर्णेति श्लोकाध पुस्तके नास्ति। २ लिखलिप्तं तु लेखिनी ३ थ . . ४ दूत्यं