________________
केशवकृतः कल्पद्रुकोशः
श्रानायी सामयी माध्वो वैष्णवः पञ्चरात्रिकः। रक्ताम्बरो भदन्तोऽपि शाक्यभिक्षुश्च वन्दकः ॥१४७॥ श्वेताम्बरः श्वेतभिक्षुः क्षपण स्तुदिगम्बरः । नग्नाढश्रमणालीक निर्ग्रन्था जीवजीवकाः ॥१४॥ चेलुकश्चीवरी भिक्षुर्महोपासकमेलिकौ । वन्यश्चैत्यः श्रामणेरः स च प्रव्रजितः पुनः ॥१४६॥ तच्छिष्याःश्रावकाः खगाः सुदन्ता एकचारिणः । बुद्धाः स्वयंभुवस्तेषां भेदाः खरतरादयः ॥१५०॥ धर्मध्वजी लिङ्गवृत्तिः पाखण्डः सर्वलिङ्गिनि । "उरःकटः पञ्चवटो जोटिङ्गश्च महाव्रती ॥१५१॥ कुहना लोभान्मिथ्यर्या सा स्यादपथकल्पना । क्षतव्रतोवकीर्णी स्याबात्यः संस्कारवर्जितः ॥१५२॥ जटालजटिली तुल्यावथ कर्पटिकार्पटी। अलाभात्तु स्त्रियस्त्यागस्तदश्वब्रह्मचर्यकम् ॥१५३॥ यद्रतं यमिनां गुप्तं खञ्जरीटरतं हि तत् । शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुद्धिजाधमः ॥१५४॥ नष्टानिर्वीरहा जातिमात्रजीवी द्विजब्रुवः । अजपस्त्वसदध्येता वेदहीनो निराकृतिः ॥१५॥
१ मध्वोवै माध्ववै २ श्वः ३ हीका ४ षङ्गाः (पङ्गाः) B ५ सुंदता ६ पाषण्डः ७ उरस्कट:B झोटिङ्गBKS